________________
श्रीवल्लभोपाध्याय विरचित
द्वितीय: पुस्तकानेकसच्छिष्यश्रावकादिपरिच्छदे । पक्षीव ममतां सर्वो विप्रमुञ्चेस्त्वमात्मज ॥ समुत्पन्ने न कम्पेथाः परोषहाद्युपद्रवे । दुःखदायिनि देहस्य पुत्रमेहरिवोत्तम ॥ ७७ ॥ त्वं भवेः सर्वथा शुद्धहृदयः सर्वसाधुषु । शारदाम्भ इव प्रायः सर्वर्तुषु सुनिर्मलम् ॥ ७८ ॥ प्रदायेत्यादिकां शिक्षा शिक्षादानविचक्षणौ । प्रपतच्चक्षुरमू तौ व्यरजेतां तदा सुतात् ॥ ७९ ॥ दीक्षादेशं च सच्छिक्षां दीक्षाया रक्षणे तदा । लब्धा वासकुमारोऽयं हृदये मुमुदेतराम् ॥८॥ चारित्रं द्विविधं प्रोक्तं सर्वतो देशतस्तथा । साधूनां च गृहस्थानां मनीषितफलप्रदम् ॥८॥ इति वासकुमारोऽथ चिन्तयामास मानसे । सर्वविरतिचारित्रमाश्चंगीकरवाण्यहम् ॥ ८२॥ धर्मेऽन्तराया भूयांसः संभवन्ति यतः सदा । अतो यतेयं चारित्रग्रहणे त्वरितं खलु ॥ ८३॥ देशविरतिचारित्रं पालयेयमथो पुरा । वीरसेनमहीपाल इवेति स व्यचारयत् ।। ८४ ॥ तद्यथा-देशविरतिचारित्रं स प्रावर्तत पालयन् ।
सर्वविरतिचारित्रं जिगृहीपुस्ततः पुनः ॥ ८ ॥ पूर्व कुर्यों गुरोर्वयों परीक्षा सर्वसाधुषु । गृह्णायां च ततश्चारु चारित्रं सर्वतः स्फुटम् ॥८६॥ चारित्रं सर्वशास्त्राणां पठनं संयमस्तपः । इत्यादि निर्वहेत्सम्यक् संयोगे सद्गुरोर्यतः ॥८७।। एवं वासकुमार एष चरणे चेतो यथाचीकरत्
श्रीश्रीवल्लभपाठकेन पठितं पापठ्यमानं बुधैः । श्रुत्वा तच्च तथा जनाः सुमनसः संसारवासोद्भवम्
सौख्यं वैषयिकं विहाय विमल तस्मिन् कुरुध्वं मनः ।। ८८ ॥ इति श्री बृहत्खरतरगच्छीय श्रीजिनराजसूरि सन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिसाहि श्रीअकब्बर प्रदत्तजगद्गुरु-बिरुदधारकभट्टारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिताहि श्रीअकबरसभासंलब्ध दुर्वादिजयवादभट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिसाहि श्रीयहांगीर प्रदत्त. महातपाविरुदधारिभट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवमूरि समुत्पन्नचारित्रग्रहणभाववर्णनो द्वितीयः सर्गः ॥ २ ॥
Ahol Shrutgyanam