________________
सर्गः।
विजयदेवसूरि-माहात्म्यम्
तृतीयः सर्गः
अथ वासकुमारः सन् कुर्वन् गुरुपरीक्षणम् । लब्धवान् सद्गुरुंतं च बुद्धवान् गौतमाधिकम् ॥२॥ तद्यथा-अथाभूत्स पुरा वीरश्चतुर्विशो जिनेश्वरः ।
शासने यस्य भूयांसो गच्छाः सन्त्युदितश्रियः ॥२॥ तेषु गच्छस्तपानाम प्रसिद्धोऽस्ति प्रसिद्धिमान् । विधानात्तपसः शश्वदुस्तपस्य विशेषतः ॥३॥ तत्र वीरजिनाधीशपट्टानुक्रमसंश्रितः । षट्पश्चाशपदं मरिरानन्दविमलोऽश्रयत् ॥४॥ आचारं शिथिलं त्यक्त्या व्यधादाचारमुत्कटम् । श्राद्धलोकांच्युतान्धर्मादादधार च यः क्षणात्॥ महेभ्यानां महेभ्यानां पुत्राणां च शतानि च । त्याजयित्वा कुटुम्बादि मोहं दीक्षयसिस्म च ॥ आनन्दविमलमूरेः सप्तपञ्चाशतित्पदे । विजयदानसूरीन्द्रः सोभाद् भानुरिवोदये ! ७॥ श्रीस्तम्भतीर्थ-पत्तन-श्रीराजनगरादिषु । जिनबिम्बशतान्जानि प्रतिष्ठां योऽनयत् क्षणैः ॥८॥
४-६-सन्ततपागच्छे स आनन्दविमलमूरिः षट्पञ्चाशपदं षट्पञ्चाशतः पूरणं षट्पञ्चाशं तञ्च तत्पदं च स्थानं षट्पञ्चाशपदं ५६ तत् अश्रयत् असेवत । कथंभूतः आनन्दविमलमूरिः? वीरजिनाधीशपट्टानुक्रमसंश्रित: वीरजिनार्धाशात्पट्टानां योऽनुक्रमस्तं संश्रितो यः स तथा; द्वितीयाश्रितातीतेति द्वितीया तत्पुरुषः । स कः य आनन्दविमलसूरिः शिथिलं आचारं त्यक्त्वा उत्कटं आचारं सिद्धान्तप्रणीतगौतमादिगणधरस्थूलभद्रादिसाधुयथाविधिविहिततपःक्रियादिसमाचरणं व्यधात् । चः पुनः धर्माच् च्युतान् श्राद्धलोकान् क्षणात् आधार उद्धृतवान् । तथा चात्र वार्तालेश:-श्रीआनन्दविमलसूरिः क्रिशशिथिलबहुलसाधुलोकपरिवृतोऽपि संवेगरङ्गतरङ्गनिश्चलभावितचेताः श्रीविक्रमनृपाद् यशीत्यधिक पञ्चदशशत १५८२ वर्षे कतिचित्साधुपरिवृतः श्रीमदत्प्रतिमाप्रतिषेध १ साधुजननिषेध २ प्रमुखोत्सूत्रप्ररूपणरूपसमुद्रे ब्रुडतोऽनेकलोकान् विलोक्य करुणारसरसिकमानसः श्रीहेमविमलसूरिगुरुप्रवराज्ञया शिथिलाचारपरिहरणलक्षणक्रियोद्धरणप्रवणेन तान् तत्काडासमुद्धतवान् । तथा महेभ्यानां महेभ्यपुत्राणां चानेकानि शतानि प्रतिबोध्य कुटुम्बधनधान्यादि मोहं प्रतिषेध्य च प्रावाजितवान् इति श्लोकद्वयार्थः । एवं चास्थाने के अवदाताः सन्ति तांश्चात्र ग्रन्थविस्तरभिया नाकथयाम नचालिखाम । ___७-८-उदये उदयाचले णीगप्रापणे अस्य द्विकर्मत्वात्। जिनविम्यशताब्ञानि प्रतिष्ठामित्युभयत्र कर्म । अणैरुत्सवः । श्रीराजनगरादिषु इत्यत्र आदिशब्दान महीशान-धारवन्दिरादिग्राह्यम् ।
Ahol Shrutgyanam