________________
श्रीभोपाध्याय विरचितं
[ प्रथमः
I
aai गृहीत्वा योषितो यान्तु तद्गृहम् | सद्गीतानि च गायन्तु स्थिराङ्गजजनितः ॥ २७ ततोऽह्नि पञ्चमेऽर्कस्य दर्शनं शशिनो निशि । कारयामासतुस्तस्य पितरौ परमोत्सवात् ||२८|| एवं जन्मोत्सवे दिव्ये जायमाने दिवानिशम् । आजगाम श्रियां धाम दशमं सुदिनं दिनम् ॥ सगोत्रानादरात्तत्र निमन्त्र्य च महाजनान् । भक्तितो भोजयामास मृष्टानं लप्सिकादिकम् ॥ तेषामिभ्यः ससभ्यानां नालिकेराण्यदात्ततः । चिरं जीव्यादर्यं बालो ददुरित्याशिषं च ते ॥ ३१ सत्यस्मिन् सदा लक्ष्मीर्बलवांथ कुमारवत् । इति वासकुमारोऽयं पिता नामावदत्तदा ॥ ३२ दिव्यदेवाङ्गनं चाथ जलयात्रां महोत्सवात् । पुत्रस्याकुरुतां रूपं पितरौ प्रीतचेतसौ ॥ ३३ ॥ एवं जन्मोत्सवं तस्य कृत्वा तुतुषतुस्तराम् । पितरौ च तथैवान्ये तुतुषुर्नागरा नराः ॥ ३४ ॥ अथ वासकुमारोऽसाववर्धत दिने दिने । कलारूपप्रतापाद्यैर्द्वितीयाचन्द्रमा इव ॥ ३५ ॥ श्रीमान प्रसादनीयच सुरम्यो दर्शनीयकः । प्रतिरूपो ऽभिरूपश्च कलाकलितपुद्गलः ॥ ३६ ॥ — युग्मम् ॥ धात्रीभिः पञ्चभिः सम्यक् पाल्यमानो दिवानिशम् । स प्रापत्सप्तमं वर्षे पठनार्ह सदा शिशोः || शुभे मासे सिते पक्षे वारे वरे तिथौ । मुमुहूर्ते शुभे लग्ने सुयोगे सुदिने दिने ॥ ३८ ॥ कृत्वा महोत्सवं दिव्यं गजाश्वादि विराजितम् । नानाप्रकारवाद्यानां शब्दसन्दोहसुन्दरम् ॥ कान्तासन्ततिसंगीतगीताद्भुतविधायकम् । गीयमानयशः कीर्ति विबुधैर्मागधादिभिः ॥ ४० ॥ विद्वदध्यापकाभ्यासे पिताऽध्यापयति स्म तम् । विद्याः सोऽधीतवान् सर्वाः पूर्वाश्रीत इवैव यत् ॥ चतुर्भिः कलापकम् | rataeda तं विलोक्य विनयान्वितम् । पितरौ सममोदेतां तस्मिवास्निह्यतांतराम् ||४२॥
み
२९ - सुदिनशब्द : शोभनपयार्यः ।
३१ - तेषामित्यत्र सम्प्रदानाभावान्न चतुर्थी ।
३३- प्रशस्त कुरुतामिति अकुरुतां रूपम् ।
३६ - प्रसादनीयः पश्यतां जनानां मनःप्रसन्नताकारी । सुरम्यः सुष्ठु रमणीयः । दर्शनीयकः पश्यतां जनानां नेत्राणां न श्रमकारकः । प्रतिरूपः पश्यन्तो लोकाः पृथक् पृथक् प्रतिबिम्बमिव पश्यन्ति । अत एव अभिरूपो मनोहरः । अत एव कलाकलितपुद्गलः कलासहितशरीरः । असौ वासकुमारी द्वितीया चन्द्रमाश्च एभिर्विशेषणैः सदृशौ ऐघेतामित्यर्थः । कुमारपक्षे कलाकलित पुलः विज्ञान कौशलान्विततनुः । चन्द्रपक्षे षोडशांशान्विततनुरित्यर्थः ।
Aho ! Shrutgyanam