________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् पत्युक्तं वच ईदृशं श्रुत्वा सा मुमुदे हृदि । मम स्वामिन् मुतो भावी वेग्रीति प्रागचिन्तयम् ।। पत्या सार्धं शुभान् भोगान् देवतास्पर्द्धयेव किम् । भुनाना प्राधरद्गर्भ सा ततस्ततचित्तमुत् ।। उत्सवेन सुखेनापि निराबाधतया तथा । तस्याः कुक्षौ सरस्यां सन् गर्भः पद्म इवैधत ॥१६॥ धर्मकर्माणि कुर्वन्ती पूरयन्ती च दोहदान् । गर्भयोग्यानि भोज्यानि भुञ्जाना चाप्यवर्तत ।। चतुर्विंशत्तमे वर्षे षोडशस्य शतस्य हि । पौषे मासे सिते पक्षे त्रयोदृश्यां दिने रवौ ॥१८॥ नक्षत्रे रोहिणीनाम्नि सम्यगयोगसमन्विते । सर्वांस्वाशासु सौम्यासु निष्पन्नान्नावनीषु च ॥ स्थिरे वरे वृष लग्ने शोभमाने शुभग्रहैः । उच्चस्थानस्थितैः सर्वैः स्वस्वस्वामिभिरीक्षिते ॥२०॥ परिपूर्ण तथा सार्ध नवमासावधौ शुभे । पुत्र प्रास्त सा पूतजाग्रज्ज्योतिस्तनूदयम् ॥२१॥ निरातङ्का निरातकं निश्शोका शोकवर्जितम् । सुभगा सुभगं सौम्या सौम्याकारं सुखाकरम्॥
-पभिः कुलकम् । स सदोचितवालाख्यगोत्रोदयकरोऽसुरत् । जगज्ज्योतिष्करोऽगारान्तःस्थः खस्थोऽयमेव हि ।। अगायन् जन्मयोग्यानि गीतानि च सुयोषितः । वाद्यान्यऽवादयच् श्रेष्ठी विविधानि दिवानिशम्।। ततः प्रातः स्थिरश्रेष्ठी समाहूय महाजनान् । तेभ्योऽदानालिकेराणि सुतजन्म प्रियं यतः॥२५ अभूजयजयाकारः सारः श्रेष्ठिस्थिरालये । आत्मसम्बन्धिनश्चान्ये लोका उदसर्वस्तदा ॥२६
१५-भोगान् शब्दादीन् भुजाना अनुभवन्ती । भुजाना इत्यत्र 'ताच्छील्यवयोवचनशक्तिषु चानश्' इत्यानश् ताच्छील्यार्थः ।
१६-पद्मशब्दः कमलवाची पुनपुंसकलिङ्गत्वात् पुल्लिङ्गो व्याख्येयः। १७-दोहदशब्दः पुनपुंसकः ।
२३-स वालोऽसुरत् अशोभत । कथंभूतो बालः ? सदा उचितबालाख्यगोत्रोदयकरः । कथंभूतः स बालः ? अगारान्तःस्थः सन् गृहमध्यस्थितः सन् जगज्ज्योतिष्करः । क इव ? उत्प्रेक्ष्यते; हि निश्चयेन खस्थः आकाशस्थितः अर्थमेव सूर्य इव । कथंभूतः सूर्यः ? सदा उचितबालाख्यगोत्रोदयकर:-उचिता योग्या बाल: प्रथमतस्तत्कालोद्गतत्वात् बालक इत्याख्या नाम यस्य सः उचितबालाख्यः तत्कालोद्गतः सूर्यों बाल एवोच्यते । गोत्रे अर्थाद् उदयाचले । उदयं उद्गमनं करोतीति गोत्रोदयकरः । उचितबालाख्यश्चासौ गोत्रोदय करश्चेति कर्मधारये उचितबालाख्यगोत्रोदयकरः । पुनः कथंभूतः अर्यमा ? जगज्ज्योतिष्करः ।
२५-तेषां सन्नालिकेराणि, ददौ यद्वल्लभः सुतः इति पाठान्तरम् ।
२६-मुं प्रसवैश्वर्ययोः, गतावप्येके; स्वादिः परस्मैपदी इत्यस्य अनद्यतनी प्रथमपुरुषबहुपचन उपसबन उत्सवान् चरित्यर्थः । तदर्शयति
Ahol Shrutgyanam