________________
श्रीवल्लभोपाध्यायविरचितं
[प्रथमः माहात्म्यं पूर्वमरीणामतिशेतेऽत्र भ्रतले । विजयदेवसूरीणां माहात्म्यमधिकं सदा ॥२॥ विजयदेवमाहात्म्यं वयेतेऽत्र यतोऽद्भुतम् । विजयदेवमाहात्म्यं नाम काव्यं ततः स्मृतम् ॥३॥ विजयदेवमाहात्म्यनाम काव्यं कविप्रियम् । श्रीवल्लभ उपाध्यायः कुरुते स्वार्थसिद्धये ॥४॥ विजयदेवसूरीणां प्रगुणाः सद्गुणा गुणाः। विदिता अवदाताश्च प्रेरयन्ति यतोऽत्र माम् ॥५॥युग्मम्
भास्वच्छ्रीभारते क्षेत्रे, धरालङ्करणं सदा । पुराणां भाति राजेव श्रीईडरपुरं पुरम् ॥६॥ तत्र श्रेष्ठी स्थिरो नाम श्रेष्ठश्रेष्ठिशिरोमणिः । ऋद्धिमान भूपतेः प्रेष्ठः श्रेष्ठः सर्वप्रतिष्ठया ॥७॥ रूपानाम्नी सुरूपा स्त्री तस्यासीच्छुभलक्षणा । विनयादिगुणोपेता रूपवत्स्वप्रियपिया ||८|| एतौ जायापती भोगान् शचीशकाविवानिशम् । अमुजातामयुञातां रतिप्रीतीव चेतसि ॥९॥ सुखसुप्तैकदा रूपा स्वमे सिंहं व्यलोकयत् । एतत्मभावान्मे पुत्रो भावी चेति व्यचिन्तयत् ॥१०॥ उत्थाय प्रातराहेति पति प्रति पतिव्रता । अद्यापश्यमहं रात्रौ स्वप्ने सिंहं सह श्रिया ॥१२॥ इति श्रुत्वा वचस्तस्याः स्थिरः स्थिररतिः पतिः। अभवच्छुभवद्वाक्यं श्रुत्वा प्रीतो भवेन्न कः?| पतिः पत्नी प्रति प्राह तव पुत्रो भविष्यति । सूर्यवद्भुवि तेजस्वी सर्वसर्वसहाधिपः ॥१३॥
५-प्रगुणाः प्रकृष्टाः अन्यसूरिजनापेक्षया, क्रोधाक्रोशगालिप्रमुखप्रतिकूलदोषरहितत्वात् , एकैकतोऽधिकत्वाच; गुणा भयानकमनोहरत्वादयो येषां ते प्रगुणाः । गुणाः शौयौदार्यसौन्दर्यशौण्डर्डोर्यादयः । पडिरूवो १ तेयस्सी २' इत्यादयः षट्त्रिंशत्सूरिसम्बन्धिनः, सप्तविंशतिः साधुसम्बन्धिनो वा । कथंभूताः गुणाः सद्गुणाः सन्तो विद्यमानाः सत्याः प्रशस्याः अर्चिता वा; पूर्वसूरीणां अपरसाधुजनानां च गुणानामपेक्षया सुभगत्वादयस्तत्तद्गुणप्रतिकूलाऽसुभगत्वादिदोष. रहितत्वात् ; येषां ते सद्गुणा इति गुणविशेषणं युक्तम् ॥५॥
६-श्रीईडरपुरमित्यत्र सन्ध्यऽकरणं प्रकटावबोधार्थ, सन्धौ हि डरपुरमित्यनिष्टनामाशङ्कानिरासार्थ च; विवक्षितत्वात् सन्धेः, 'भो भगो अघो अपूर्वस्येति ' पाणिनीयसूत्रवत् ; 'अइउऋल समाना' इति सारस्वतसूत्रादिवत् । अहं पूर्वो अहं पूर्व इत्यहंपूर्विका खियामिति गौडवचनवञ्च । न चान सहितकपदे नित्या' इति कथनात् श्रीईडरपुरमित्यकेपदत्वात् नित्यसन्धिविधानाशङ्का करणीया; भो भगो अघो अपूर्वस्येत्यस्यैव एकपदवे सत्यपि सन्धेरकरणे ज्ञापकात् । श्रीईडरपुरं पुरं क इव राजेध ! कथंभूतो राजा ? सदा धरालङ्करणं पृथिव्या अलङ्कारः । अलकरणशब्दस्य अजहल्लिङ्गत्वात राज्ञो विशेषणे नपुंसकवचनं न दुष्टम् । पुरविशेषणे तु पुरशब्दस्य नपुंसकत्वात नपुंसकवचन विशिष्टमेवेति ॥६॥
८-रूपवत् सौन्दर्यमिव नाणकमिव वा यथा सौन्दर्य नाणकं वा वल्लभं भवेत् तथा रूपा नानी स्यपि ।
१३-सर्वस्याः सर्वसहायाः पृथिव्याः अधिपः स्वामी सर्वसर्वसहाधिपः।
Aho I Shrutgyanam