________________
श्रीवल्लभोपाध्यायविरचितं
विजयदेवसूरि-माहात्म्यम् ।
ॐ ॥ श्रीतपागच्छाधिराज भ० १९ श्रीविजयदेवसूरिगुरुभ्यो नमः ॥ स्वस्तीव स्वस्तिसंपृक्तं स्वस्तीव स्वस्तिकारकम् । वर्द्धमानं जिनं नौमि जगतः परमप्रियम् ||१||
१-एँ नमः | व्याख्या- अहं वर्धमानं जिनं नामीति क्रियान्वयः सुगमः । कथम् ०? वर्धमानं स्वस्तिसंपृक्त - स्वस्ति-कल्याणेन, संपृक्तो-मिलितो, य स तथा तम् । किमिव ? स्वस्तीव-स्वस्तिशब्द इव । कथंभूतं स्वस्ति ? स्वस्तिसंपृक्तं स्वस्ति कल्याणमित्यर्थेन मिलितं व्याप्तं यत्तत्तम् । तथा तत्रबस्तीत्यस्यार्थस्य कल्याणापरपर्यायस्य स्वस्तिशब्द एव विद्यमानत्वात् । न तु घटादौ शब्दवृन्दे, घटादिशब्दानां अपरपदार्थवाचकत्वात् । न च कल्याणादिशब्दवृन्देऽपि, कल्याणादिशब्दवृन्दस्य स्वस्तिशब्दस्य पर्यायान्तरवाचकत्वात् सुवर्णादीनामपि पर्यायवाच । केनापि 'कल्याणमस्तु' इत्याशीर्वचने निवेदिते स्वर्णमस्तु इत्यप्यर्थप्रतीतेः । पुनः कथंभूतं वर्धमानं ? स्वस्तिकारकं - कल्याणकारकम् । किमिव ? स्वस्तीव-स्वस्तिशब्दवत् । यथा स्वस्तिशब्दः केनाप्युच्चरितः श्रुतः सन् 1 स्वस्तिमतोऽस्वस्तिमतो वा यस्य कस्यचित् स्वस्तिकारीस्यात्, तथा वर्धमानजिनोऽपीति । स्वस्तीव इत्युभयेोरुपमापदयोः स्वस्ति इत्यत्र अकृतशब्दनिर्देशत्वात् अव्ययत्वात्; द्वितीयविभक्त्येकवचनलेापः विभिन्नलिङ्गवचनानामिति वाग्भटवचनात् । भिन्नलिंगोपमां बुत्राः कापि प्रयुञ्जते तथापि लिंगभेदं तु मेनिरे; इति वाग्भटेन तत्रैव कथितत्वात् । मुखं चन्द्रमित्रालोक्य इत्यायुदाहरणवत् । नपुंसकलिङ्गेोपमादोषोऽपि नेति । नतु पुंल्लिङ्गत्रीलिङ्गशब्दान् विहाय आदित एक अध्ययशब्दप्रयोगे किं प्रयोजनम् । अव्ययशब्दानां नपुंसकलिङ्गत्वात् । नपुंसकस्य कार्यकरणे अवीर्यत्वात् इति चेन्मैवम्- 'प्रशब्दश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्मङ्गलवाचकौ ॥ १ ॥ इति प्राचां वचनात्; प्राथादिशब्दवत् स्वस्तिशब्दस्य नपुंसकलिङ्गत्वेऽपि मङ्गलवाचक कारकत्वाभ्यामवश्यं सवीर्यत्वात् स्वस्तीत्यस्य अव्ययस्य नपुंसकस्य प्रथमतः प्रयोगो न दोषायेति । अथवा 'सदृशं त्रिषु लिङ्गेषु' इत्युक्तत्वात्, अव्ययानां त्रिपि लिङ्गेषु समानरूपत्वात्, इह स्वस्तीत्यनयोः उभयोरुपमापदयोः पुंल्लिंगद्वितीयैकवचने मवावसेयमिति । तथा स्वस्तीत्यत्रोभयत्र अव्ययोपमापदयोः प्रयोगे - ' सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥ १॥' इत्युक्तत्वात् । यथा अव्यय शब्दो लिङ्गादिषु कदापि न व्येति तथा एतच् श्रीविजयदेवमाहात्म्यनामकं काव्यमपि । स्वस्तिमत्त्वं कर्तृश्रोत्र ध्येतुप्रभृतीनां स्वस्तिकर्तृत्वे च न व्येतीति कवेरभिप्रायः । पुनः कथंभूतं वर्धमानं जिनं ? जगतो लोकस्य परमप्रियं प्रकटार्थमेतदुभयोर्विशेषणं इति श्लोकार्थः ॥ १ ॥
Aho! Shrutgyanam