Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 25
________________ श्रीवल्लभोपाध्यायविरचितं [तृतीयः शत्रुञ्जयगिरेर्मुक्ति पाण्मासिकीमकारयत् । यस्योपदेशसम्बुद्धो श्रुतपूर्वो रराज सः ॥९॥ सुरत्राणमहिमूंद-राजमान्यो महद्धिकः । गलराजाभिधो मन्त्री यात्रां चक्रे च चक्रिवत् ॥१०॥ तत्पमुद्रिकाहीरो हीरविजयसूरिराट् । सोऽष्टपश्चाशत्पट्टलक्ष्म्या लसति विष्णुवत् ॥ ११॥ यस्य सौभाग्यवैराग्यनिःस्पृहत्वादिसद्गुणैः। रञ्जितः स्तम्भतीर्थस्य व्ययं सङ्ग्रो व्यधादिति॥ इतीति किं तदाहव्याख्यानादिषु कार्येषु कार्येषु वरसूरिभिः । कोटिमेकां सटङ्कानां तस्मिन्नव्यययत् स्थिते ॥ यस्य प्रतिपदं पादपद्मन्यासे सदाऽभवत् । सुवर्णटङ्करूप्यादि नाणकानां प्रमोचनम् ॥ १४॥ मुक्ताफलादिभिर्दीव्यैर्बहुमूल्यैः शुभप्रदम् । रचनं स्वस्तिकानां च पुरतस्सोभिनन्दिति ।युग्मम् । ९-१०-स विजयदानसूरिः रराज । स कः ? यस्योपदेशसम्बुद्धो गलराजाभिधो मन्त्री अश्रुतपूर्वी पाण्मासिकी शत्रुञ्जयगिरेमुक्तिं अकारयत् । च पुनः चक्रिवत् भरतचक्रिवत् यात्रा चके । कथंभूतो गलराजभिधो मन्त्री ? सुरत्राण-महिमून्दराज मान्यः-सुरत्राणमहिमूदः पातसाहिः प्रसन्नमनाः श्रीगलराजमन्त्रिगे पर्यस्तिकावानं 'नगदलमलिक' इति बिरुदं च दत्तवान् । पुन क० महर्धिकः । श्रीविजयदानसूरिप्रदत्तोपदेशप्रतिबुद्धः प्रबुद्धशत्रुञ्जयतीर्थयात्राफलः श्रीसुरत्राणमहिमून्दभूपतिमाननीयो मन्त्रिगलराजोऽपरनाम श्रीनगदलमलिकोऽश्रुतपूर्वा पाण्मासिकी शत्रुञ्जयमुक्तिं कारयित्वा सर्वदेशनगरपुरमामादिषु कुङ्कुमपत्रिकाप्रेषणनिमन्त्रणानेकदेशनगरप्रामाद्यागतश्रीसङ्घसमेतः शित्रुञ्जययात्रां मुक्ताफलादिना श्रीशत्रुञ्जयवर्धापनं च श्रीभरतचक्रवर्तीव चकारेति । ११-स हीरवि जयसूरिराट् अष्टपञ्चाशत्पट्टलम्या लसति क्रीडते । किं वत् ? विष्णुवत् नारायण इव । स कः ? यत्तदोनित्याभिसम्बन्धात्-यः तत्पट्टमुद्रिकाहीरः श्रीविजयदानसूरिपट्टरूपमुद्रिकायों होरोपमः अधिकशोभाविधायित्वात् । श्रीहरिविजयसूरीणां विक्रमनृपात् व्यशीत्यधिक पञ्चदशशत वर्षे १५८३ मार्गशीर्षशुदि नवमीदिने प्राल्हादनपुरवास्तव्यः श्रीऊकेशज्ञातीय साह कुरा भार्या नाथी गृहे जन्म, षण्णवत्यधिक पञ्चदशशत वर्षे १५९६ कार्तिकवदि द्वितीयादिने पत्तननगरे दीक्षा, सप्ताधिके षोडशतवर्षे १६०७ नारदपुर्या श्रीऋषदेव प्रासादे पण्डितपदम् , अष्टाधिके षोडशशतबर्षे १६०८ माव सुदि पञ्चमी दिने नारदपुर्या श्री वरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् , पञ्चादशाधिके षोडशशतवर्षे १६१५ सीरोहीनगरे सूरिपदं बभूवेति । १२-१३-स श्रीस्तम्भतीर्थवासी सङ्घः तस्मिन् श्रीहीरविजयसूरौ स्थिते एका टङ्कानां कोटिं अव्यययत् प्रभावनादिभिर्द्रव्यव्ययं चकार । व्ययण वित्तसमुत्सर्गे चुरादौ अदन्तः परस्मैपदी । केषु व्याख्यानादिषु कार्येषु कर्मसु, कथंभूतेषु वरसूरिभिः कार्येषु । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120