Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् एवं सूरिवरस्स हीरविजयो दिव्यावदातान् घनान्, चक्रे यान् जगतीतलेऽत्र विमलान् संस्तूयमानान् बुधैः। तान् शक्नोति न वाक्पतिः कथयितुं शक्तः कथं स्यां ततो, यं श्रीवासकुमार इत्यवितथं पर्येक्षतोगक्रियम् ॥१२॥ इत्थं वासकुमार एप सुगुरोर्याक् परीक्षां व्यधात्, श्रीश्रीवल्लभपाठकः समपठत् तां पण्डितैः संस्तुताम् । श्रुत्वा तां च तथैव तत्र भविकाः सम्यक् यतध्वं सदा,
सेवध्वं च विबुध्य तां च खलु तं त्यक्त्वा प्रमादं मुदा ॥१२॥ इति श्री बृहत्खरतरगच्छीय श्रीजिनराजसरि सन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिसाहि श्रीअकब्बर प्रदत्तजगद्गुरु-बिरुद्धारक भट्टारक श्रीहीरविजयसूरीश्वर पट्टालङ्कार पातिसाहि श्रीअकब्बरसभासंलब्ध दुर्वादिजयबादभट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारि पातिसाहि श्रीयहांगीर प्रदत्तमहातपाविरुधारि भट्टारक श्रीविजयदेवसूरीश्वर गुणवर्णेनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवमूरि गुरुवर्णनपरीक्षणो नाम तृतीयः सर्गः ॥ ३ ॥
RONG
१२२-स हीरविजयः सूरिवरः, एवं पूर्वोक्तप्रकारेण यान् धनान् दिव्यावदातान अत्र जगतीतले चक्रे तान् दिव्यावदातान् कथयितुं वाक्पतिहस्पतिर्न शक्नोति, ततस्तस्मात्कारणात् अहं कथं केन प्रकारेण शक्तः स्यां भवेयम् ? अपि तु न स्यामित्यर्थः । स कः ? यं श्री हीरविजयसूरि श्रीवासकुमार इति पूर्वोक्तप्रकारमवितथं सत्यं उपक्रिय पर्यैक्षत परीक्षितवान् । शेष स्पष्टम् ।
१२३-उत्तरार्धस्य व्याख्या-तां परीक्षां श्रुत्वा तथैव तेन प्रकारेणैव श्रीवासकुमारकृतसद्गुरुपरीक्षाप्रकारेणैव तत्र सद्रूपरीक्षायां भो भविकाः सम्यक् सदा यतध्वम् चोऽत्रावा. चये तां सद्गुरुपरीक्षा विबुध्य ज्ञात्वा सद् सेवध्वं । अत्रापि चोऽन्याचये ।
Aho I Shrutgyanam

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120