Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 36
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् पञ्चमः सर्गः २३ अहमदावादे स्थिरः श्रेष्ठी समाययौ । पुत्रस्य स्वस्य पत्न्याश्च दीक्षाग्राहणहेतवे ॥ | १ || गृहे गृहिण एकस्य यावद्वसनभाटकम् | दत्त्वा तत्रावसद्वश्यः पुण्यात्मा पुरुषोत्तमः ||२|| अert ततः श्रेष्ठी दीक्षायाः सन्महोत्सवम् । श्रीमद्वासकुमाराख्य- पुत्रस्य स्वस्य च स्त्रियः। तद्यथा - व्यचित्रयद्विचित्राणि चित्राणि वरवर्णकैः । गृहभित्तीः सुविच्छित्तः कविः काव्यततीरिव ॥ ४ ॥ गृहस्य प्राङ्गणं प्राभात् स्वतिकाब्जादिमण्डनैः । मण्डितं पण्डितस्त्रीभिस्तदा चित्रितवस्तुवत् ॥ चन्द्रोदयचयो यत्र प्रतिस्थानं नियन्त्रितः । चन्द्रोदय इव प्रायो मनोहरन्मनोहरः ॥६॥ बद्धमुचैः कचित्तत्र स्थूलं स्थूलं व्यलीलसत् । शृङ्गारमिव रोदस्योः मालम्बनकसंयुतम् ||७|| यत्र हाजापटेलस्य प्रतोली बहुलालया । अस्ति, सन्ति हि यस्यां च सकला बहुलालयाः॥८॥ मण्डपं मण्डयामास दीक्षायास्तत्र सुन्दरम् । पञ्चवर्णमयैर्वत्रैचित्रकृद्भिर्विचित्रितैः ॥ युग्मम ॥ मुखमल्ला बभ्रुर्यत्र मुखमल्ला बुधा इव । वाणीवर्णविशेषाणां रचनाभिर्नृरञ्जकाः ॥ १० ॥ रवाफादयः क्वापि विशेषा वाससामिमे । बभ्रुनेंत्रप्रिया यत्र नानाविच्छित्तिनिर्मिताः ॥ ११ ॥ आयाताः सूर्यचन्द्राद्याः ग्रहा इव सुविग्रहाः । तन्मिषात्तन्मुखं दृष्टं नानासंस्थानसंस्थिताः ॥ द्वारं तस्य विभाति स्म रम्भास्तम्भविशोभितम् । सुखानां कौतुकानां च संकेत इव रूपवान् । खं भुवं चान्तरायच विमानमिदमीदृशम् । द्यावाभूम्योविंदूरस्थं पुंस्त्रीदेवादियुगू व्यभात् ॥ आदर्शी रचना यत्र कुत्रचित्प्रीतिकारिणी । तदा श्रेणिरभूत्पुंसां दृष्टान्तानां परस्परम् | १५ | आदर्शी रचना यत्र कुत्रचित्सर्वतस्तदा । प्रतिबिम्बेन लोकानां वक्तीव किमु तद्गुणान् । १६। क्वाप्यत्र स्वस्तिकादीनि मौक्तिकैर्ग्रथितानि हि । प्रालम्बनकभास्वन्ति मोहयन्ति स्म मानवान् । पण्डितानक्षराणीव लिखितानि खटीरसैः । मात्राविन्दुमदीप्तानि प्रकटान्युज्ज्वलानि च ॥ - युग्मम् । इति दीक्षामण्डपवर्णनम् ॥ आकारयत्स आराममभिराममनिन्दितम् । पुत्रस्य वरयात्रायै नानाकृत्रिमवृक्षकः ॥ १९ ॥ ११- अत्र विच्छित्तिः रचना विशेषः - कुत्रचित् जन्तुरूपाणि कचित् पद्मानि कचित् पुष्पाणि, कचित् सूर्यचन्द्रतारकाकारा इत्यादिलक्षणः । १२- नानासंस्थानसंस्थिताः - नाना बहु प्रकारं संस्थानं रचना स्वस्वाकारस्वरूपा रचना तेन संस्थिताः समन्ततः स्थिता ये ते तथा । तन्मिषात् जरबाफादिमिषात् । तन्मुखं श्रीवासकुमार मुखम् | Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120