Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 41
________________ २८ श्रीवल्लभोपाध्यायविरचितं [षष्ठः माशाङ्गस्य संयोगात् तदङ्गन सुरवायते । तदङ्गदुःखे दुःखं स्यान्मदङ्गस्यापि सर्वथा ॥३७॥ पवित्रं भवदङ्ग चेन्मदङ्ग मलिनं स्पृशेत् । भवदनं तदा स्वामिन , मदङ्गान सुखायते ॥३०॥ एवं राजेन्द्र गङ्गाङ्गं मादृशाङ्गस्य योगतः ! सर्वदा बहुदुःखाय न सुखाय कदापि हि ॥३९॥ विना गङ्गाजलं देव प्रतिष्ठादि भवेन हि । तन्मे मान्या सदा गङ्गा न मान्येत्युच्यते कथम् ।।४०॥ -इति गङ्गाङ्गीकारः। बोधयित्वेति सज्ज्ञानं पातिसाहिमकब्बरम् । अरअयत्तदा मूरिरजयत् प्रतिवादिनः ॥४॥ जितकाशी तदा भूत्वा महोत्सवपुरस्सरम् । मूरिरायाधत्साक्षाजयरूपमुपाश्रये ॥४२॥ -इति श्रीमदकबरपातिसाहिसदसि श्रीविजयसेनमूरिभिः पराजितप्रतिवादिवर्णनम् ॥ चतुर्मास्यो द्वके तत्र व्यधाद् धर्माभिलाषुकः। आग्रहास्पातिसाहेस्स तच्चेतस्तोषको यतः॥४३॥ हीरविजयसूरीन्द्रं संविज्ञायामयाविनम् । पातिसाहिं स आपृच्छ्य श्रीसूरीन्द्रस्ततोऽचलत् ॥ गुर्जर देशमागच्छंश्चतुर्मासी समाप्तवान् । श्रीमूरिः सादडीद्रङ्गे सद्रङ्गे श्रीभिरवहम् ॥४५॥ संजातं स्वर्गिणं स्वर्गे श्रीहीरविजयं गुरुम् । मर्त्यलोकं परित्यज्य वचः श्रुत्वेति दुस्सहम् ॥४६॥ श्रावकैरक्ष्यमाणोऽपि चतुर्मास्यन्त आग्रहात् । सोत्सवः पत्तनद्रङ्गे प्रस्थायायात्ततो गुरुः ॥४७॥ re . ३७-तदङ्गं जलमयं गङ्गाङ्गं कर्तृ न सुखायते न सुखं वेदयतीत्यर्थः । कस्मात् माटशागस्य संयोगात् । तदङ्गदुःखे जलमयगङ्गाङ्गदुःखे मदङ्गस्यापि सर्वथा दुःखं स्यात् । तदेव प्रकटयन्नाह. ३८-उक्तिलेशश्चास्य-हे स्वामिन् हे अकबरपातिसाहे चेद यदि मलिनं मदङ्ग मम कायः पवित्रं भवदनं भवतः कार्य कर्मतापन्न स्पृशेत् तदा मदङ्गात् मम कायात् कारणात् भवदङ्ग भवतः कायः कर्ता न सुखायते न सुखं वेदयतीत्यर्थः । उभयत्रापि श्लोके सुखायते इति क्रियापदं सुखादिभ्यः कर्तृवेदनायाँ इति अनुभवेऽथे क्यङि सिद्धम् । ३९-एवममुना प्रकारेण मदङ्गाद् भवदङ्ग न सुखं अनुभवति इति लक्षणेन । ४६-अजयत्प्रतिवादिन इत्यत्र च शद्वाप्रयोगेऽपि आर्थों अन्वाचयार्थश्चकारो ज्ञेय ।। ४३-स श्रीविजयसेनमूरिः तत्र श्रीलाभपुरे द्वके द्वे चतुर्मास्यौ व्यधात् । कस्मास् पातिसाहेः श्रीमदकब्बरस्याग्रहात् । कथंभूतः स ? धर्माभिलाषुकः । कथं भूत: स यतः तच्चेतस्तोषकः श्रीमदकब्बरपातिसाहिहृदयसन्तोषकारी । दूके इत्यत्र भस्त्रैषाजाज्ञाद्वास्थानामिति वैक. ल्पिकेकाराभावः । इकारसद्भावपझे द्विके इत्युभयमपि रूपम् । ४४-श्रीसूरीन्द्रः श्रीविजयसेनमूरिः ततः श्रीलाभपुरात् । ४७-गुरुः श्राविजयसेनमूरिः ततः सादडीद्रङ्गान् । Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120