Book Title: Vijaydev Mahatmyam
Author(s): Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 27
________________ १४ श्रीवल्लभोपाध्यायविरचितं [तृतीयः ततश्च तत्र ते गत्वा नत्वा तं भ्रमरायितम् । विदधुस्तत्कराम्भोजे फरमानं मनोहरम् ॥३३॥ ततः प्रीतमनाः सूरिः फरमानमवाचयत् । गन्धारवन्दिरश्रीमत्सर्वसङ्घ-समक्षकम् ॥ ३४ ॥ तदा सङ्ग्रो हृदानन्दत श्रुत्वा तल्लिखितं वचः । प्रेष्येभ्यश्च ददौ द्रव्यं वाञ्छितं जीवितोचितम् बुबोधयिषया तस्य सङ्घमापृच्छय सोऽचलत् । साधुभिः सह सच्रै पवद्दिग्जिगीपया ॥३६॥ साधयन् द्विषतो लोकान श्राद्धांश्च प्रतिबोधयन् । स्थापयन् सुकृते स्वीयानन्यांश्चोत्थापयन्नधात्।। विहरन् स क्रमेणैवं जिनवत्समवासरत् । आगरानगराभ्यणे फत्तेपुरपुरे बहिः ॥३८॥ एकीभूय ततः सङ्ग्रस्तत्रत्योऽतिमहोत्सवात । गत्वा चाभिमुखं नत्वा पुरान्तस्तं समानयत् ॥ धर्मोपदेशदानेन ततोऽमृतसदग्गिरा । मूरिस्तांस्तोषयामास दातेव जगतो जनान् ॥ ४० ॥ पातिसाहिं तदैवैवमबलफजलोऽवदत् । पातिसाहिमधानानां शिरस्सु सुशिरोमणिः ॥ ४१ ॥ य आहूतस्त्वया सूरिः, स साम्प्रतमिहागतः ।पातिसाहिरिति श्रुत्वा, ब्रवीति स्मेति तं मुदा ॥ अन्तरानयतं त्वं प्राक् यथा वन्देय भक्तितः। सिद्धये च सर्वथा सद्यो मदीयोऽयं मनोरथः।। अबलफजलाख्योऽपि मूरिमाहूय सादरम् । पातिसाहेः सकाशे साक् तदादेशात्समानयत् ॥ तदोपाध्यायशार्दूल-विमलहर्षमुख्यकैः । साधुभिः सहितः मूरिः पातिसाहिं मुदामिलत् ॥ आस्थानमण्डपे स्वीयेऽभ्युपवेश्य च तं गुरुम् । प्रणम्य प्राअलाभूय सोऽभ्यपृच्छदिति स्फुटम्।। इतीति किं ? तदाहस्वागतं स्वागत स्वीये काये शिष्यादिकस्य च । मूरिराह तदेत्यस्ति तद्धर्मात्तव चेक्षणात् ॥४७ ३७-तत्र गन्धारबन्दिरे; तं श्रीहीरविजयसूरि । तस्य श्रीहारविजयसूरेः कराम्भोज करकमलं तत्कराम्भोजं तस्मिन् । तस्मिन् पातिसाहावकब्बरे । तस्य पातिसाहेरकबरस्य बुबोधयिषा धर्मादौ बोधयितुमिच्छा तया बुबोधयिषया । किं कुर्वन् द्विषतो लोकान् प्रतिवादिनो जनान् साधयन् ; चः पुनः श्राद्धान अर्थात् अपरपरशासनधर्मान् सिद्धान्तानुसारेण स्वमुखप्ररूपितधर्म श्रद्धावतो लोकान् प्रतिबोधयन् ज्ञापयन् । पुनः किं कुर्वन् ? स्वीयान् प्रस्तावान् स्वमुखप्ररूपितधर्मकारिणो निजान लोकान् सुकृते धर्म स्थापयन् । पुनः किं ? चः पुनः अन्यान् प्रमारादिकान् राजादीन माहेश्वरादिधर्मकारिणो वा लोकान् अघात् पापात् द्वीन्द्रियादिपञ्चेन्द्रियजीवव्यापादनलक्षणात् उत्थापयन् प्रायश्चित्तालोचनादिना निवारयन् इत्यर्थः । भूपपक्षे द्विषतो लोकान् वैरिणो जनान् श्राद्धान् अर्थात्स्वसेवाज्ञाकरणे श्रद्धावतः सेवकान् , न्याये प्रवर्तध्वं अन्यायानिवर्तध्वमिति प्रतिबोधयन ज्ञापयन् , स्त्रीयान् आत्मीयान् प्रस्तावात् पुत्रादीन सगोत्रान् सुकृते राज्यसम्बन्धिनि प्रधानकर्मणि पुण्ये वा स्थापयन् , अन्यान पुत्रादिसगोत्रेभ्योऽपरान् ग्रामनगरवासिनो जनान् अधात् चौर्याब्रह्मचर्यादिलक्षणात् पापात् उत्थापयन दण्डादिदानेन निराकुर्वन इत्यर्थः । Aho I Shrutgyanam

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120