Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
विज्ञप्तित्रिवेण्यां त्रैलोक्यलोकतिलकोऽस्ति जिनो गुणर्या
तस्याऽप्युपर्यहमिति प्रमदादिवोच्चैः । नृत्यत्यशोकविटपी चटुलैर्दलैः किं ?
यद्धर्मसद्मनि स धर्मजिनः शिवाय ॥ २० ॥ भवाभ्यन्तरे कर्मधर्माकुलत्वाद् गुणश्रेणिनिश्रेणिमालम्ब्य योऽलम् । सुखं मुक्तिवातायनं प्राप्य शेते सदा निर्वृतः शान्तये स्तात्स शान्तिः॥२१
कुन्थु कान्त ! नमस्कुरु, प्रियतमे ! कः क्षुद्रनन्तुं नमेत् ? ___ भर्तः ! श्रीतनयं वदामि, मदनः किं ? नैष सूरात्मजः । किं मन्दोऽयमयि प्रभो ! नहि जगत्प्रद्योतकस्तीर्थकृत् ;
दम्पत्योरिति वक्रवाक्यविषयः पुष्यात्सुखान्येष वः ॥ २२ ॥ पूर्वोपार्जितपापकर्मपटलान्येधन्ति यत्राङ्गिनां ___ खद्योतन्ति मृगाङ्कचण्डकिरणाद्या यत्र तेजस्विनः । विश्वव्यापकमप्यनक्षविषयं यद्भासते सर्वतः
तज्ज्योतिः प्रणिदध्महे भयभिदे देवारतो नापरम् ॥ २३ ॥ देवो वाङ्मनसातिगोचरगुणोऽर्वाचीनदृग्देहिनां ___ माल्लः पल्लवयेन्मतिव्रततिकां सोऽयं वसन्तोपमः। यस्माद्विश्वजनप्रमोदजननीमासाद्य रम्यां रमां
भव्यारामगणा इह प्रतिदिनं सेव्या न कस्याभवत् ॥ २४ ॥ यो ध्यायमानोऽपि हि कृष्णवर्णस्तनोति सद्धर्मधियं बुधानाम् । सुश्यामलश्रीजलदायमानो जयत्यधीशो मुनिसुव्रताख्यः ॥ २५ ॥ तापं तापमपारदुस्तपतपः सद्ध्यानशातासिना
छिन्दानं तरसात्मकर्मगहनं दृष्टुनमादीक्षणात् । आत्मोच्छेदभियेव नो ववृधिरे केशा नखा यस्य वै श्रामण्ये विहरन्नमिर्जिनपतिः सम्पत्तये जायताम् ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180