Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२६
विज्ञप्तित्रिवेण्यां
तदित्थं सङ्घकार्यमाचर्य तत्कालागत-सा० रामा-सा० सोमाहेना सा. देवा दस्सू-पुरस्सर-फरीदपुरीयसङ्घामन्त्रणेन ततो विहृत्य पद्धत्त्यन्तरालायातेषु तेषु तेषु बहलभक्तिभावमञ्जुलविपुलश्रद्धालुकुलमण्डलाभिरामेषु ग्रामेषु तत्रत्यजनकारितानुत्साहोत्सृतपताकापल्लवान् पदे पदे प्रवेशोद्धवान् साक्षात्कुर्वन्तः क्रमेण प्रस्तुतास्पदमलमकामं । ततश्च सङ्घो गणकमुपवेश्य सङ्घयात्राप्रस्थानमुहूर्त निश्चिकाय । तदा चावसरे गुर्वास्थास्थेमभाजः सुबहवो बहुमन्यन्ते स्म । यदुतेदृशे विषमदेशकालादिभावेऽप्यचिन्त्यादृष्टसामर्थ्यादमूदृशं नाम कार्य सरेदपीति । केचन पुनः कथञ्चित्तथाविधव्यवहारेण यात्राकारिष्वगारिषु साभ्यसूयास्तदून्नति भाविनीमसहिष्णवो ऽन्यथाऽन्यथा व्यब्रुवन् । केऽपि च मध्यस्थाः कालादिभाववैषम्यं ज्ञापितवन्तः, 'यदेतादृशेन सङ्घन दूरदेशान्तरप्रस्थानं न युज्यते' इति । महाकार्यारम्भे सुलभे एवं विधे लोकवादे क्षणं दोलारूढमिव नश्वेतः समभूत् । ततः पारिणामिक्या बुद्धयेति मीमांसामहे स्म । यदुत, लोकः खलु परविघ्नसन्तोषी, यद्वा लोकवाक्यानां नैकः प्रकारो; यदि तादृग् लोकवाग्मात्रेण स्थीयते तदा द्वयोरपि न शोभा; न स्वयशो नापि परयशो रक्षितं स्यादित्येतत्कर्म निमितं वरम् , अनिम्मिते तु कृत्ये मनोमनो. रथासिद्धरसमाधिः सार्वदिकः, परेषां च प्रस्थायुकानां कलौ कालमुख्यमाविर्भविष्यति । ततश्च मनो यावन्मनाक् सत्त्वे प्रतिष्ठाप्य श्रीदेवराजपुरमण्डनकुशलशब्दाङ्कितगुरोर्वाञ्छितकल्पद्रोः प्रणिधानजं स्फुटरूपमुपदेशबलमासीसदाम । तदेतत्पिपासितस्य सुधापाननिमन्त्रणं नृत्येच्छोघघरसम्बन्धनं भृशमुन्मनीभावमुदपीपदत् । ततश्च तदादेशेन सन्नाहेनेव स्वचेतःशरीरं सन्नह्य साध्यसिद्धौ नितरां बद्धाध्यवसाया जातवन्तः । धर्मो जयति । त एव पूर्वगुर्वादयः शरणमिति कृत्वा । इत्यलं विस्तरेण । प्रकृतं प्रस्तुमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180