Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 150
________________ द्वितीया वेणिः। णेन स्नात्राम्भसा सह तदाशातनभीत्येव तुल्यस्थानस्थितमपि नैकीभवति । प्रत्यक्षं चाधुनापीदम् । अथवाऽसम्भावितकीटिकाप्रवेशनिर्गमे लघुन्यप्यमुप्मिन् गर्भागारे कृतकपाटसम्पुटे भूयोऽपि स्नात्रतोयं सङ्घदुरन्तदुरितमिव क्षणादकस्मादूर्वशोषं शुष्यति । इह हि कृतं स्तोत्रादिपूजाद्यं सत्कृत्यं सत्क्षेत्रे निहितं बीजमिवैकान्तेनाविसंवादि फलं स्यादित्यागमः।" तदिदमुस्कण्ठितस्याऽऽद्वानं घटितसुवर्णे वर्णिकाधान मित्याभाव्य स्ववाग्वल्ले प्रकामफलभूतमिमां स्तुतिमित्थमाविरबीभवाम । तद्यथाजगजीवनं पावनं यस्य वाक्यं महोक्षध्वजं चङ्गगाङ्गेयकायम् । तिरस्कृत्य कर्मस्थितं जन्तुतातं श्रयें तं मतिश्रीकृते तीर्थराजम् ॥१॥ गलन्त्याशु पापान्यनन्तानि तानि प्रसर्पन्त्यगण्या मुदश्चावदाताः । महासिद्धिरायाति कीर्तिश्चकास्ति प्रभो त्वां नमस्कुर्वतां शान्तमूर्तिम् ॥२॥ छेकः कष्टोच्छेदने दीप्तिभानुभक्तस्यातुच्छेष्टदो भीतिभेदी । युक्त्या युक्तः स्वागमागाधवाक्यः सिद्धयै रोद्धा युग्मिधर्म क्षतागाः ॥३॥ दिष्टया दृष्टे तेऽम्बुजोजिष्णुवके दूरं नष्टाऽऽदिप्रभो क्लेशराजिः । नन्वारूढे भास्करे पर्वतं तं ध्वान्तं किं न क्षीयते निष्कलापम् ? ॥ ४॥ रयापारसंसारनीहारसूरं रजोभारसंहारणासारनीरम् । कृपालुं रसालं महाधीवरं सत् प्रभावं महामो ऽञ्जसाऽधीश्वरं तम् ॥५॥ (नायकमणिः ।) तरन्ति सन्तो विपदर्णवं ते पोतायितं येऽनुसरन्ति तेऽदः ।। नतं पदाब्जं भुवि सावधाना यस्मान् मनुष्येष्वथ शर्म भावि ।। ६ ॥ जगत्प्रभुः सत्यनयः स्वयम्भूः स्वाद्वाधजन्मा निहतान्तरायः । तेजोमयस्तात्त्विकयोगगम्यो जीया गतेह ! त्वमघाद्रिवायो ! ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180