Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 169
________________ विज्ञतित्रिवेण्यां शश्वद्धीरतरः स्फुरद्वसुभरः सत्सौमनस्योद्धरः जीयाच्छ्रीजिनभद्रसूरिसुगुरुः सर्वसहायां चिरम् ॥ ३ ॥ सद्भिः सुवंशजातैः संश्रितपादो वरेण्यशाखीव । सद्भिः सुवंशजातैः संश्रितपादो गुरुयात् ॥ ४ ॥ विहाय पङ्कोचयमुत्सृतानां सद्वासनाश्रीसमषिष्ठितानाम् । प्रबोधनायायमनोऽम्बुजानां प्रकल्पते यद्ववचनं रविश्च ॥५॥ यन्मूर्तिवत्प्रीतिकरी सरस्वती सरस्वतीवन्मधुरा गुणावली । गुणावलीवद्विपुला मनीषा नन्दन्तु ते पूज्यतमा जगत्याम्॥६॥ (रसनोपमा ।) रोगोरुगोरुगारीरंगौराङ्गगुरुरुग्गुरुः। आगोगागारिरागारंगिरांगोगेरिगो गुरुः ॥ ७ ॥ (द्विव्यञ्जनलोकः ।) प्यानध्यानधुतापदो घनतमःसम्भेदने साधवो विश्वेनाश्चितसत्पदो भवभिदो रङ्गन्महाभानवः । चेतोगुणसम्पदो जनमतोत्सृष्टौ सुरोवारुहः . कल्याणं ददतां सतां गुरुरसावन्येऽपि चानारतम् ॥ ८॥ (महाद्भुतम् । प्रथमैकवचनबहुवचनाभ्यांव्याख्येयं विद्वद्भिः।) जीयासुर्गुरवोऽवन्यां वन्यामिवावनीरुहाः । यमासृत्य चयं याति विद्याव्रततिसन्ततिः ॥९॥ (गुरुवर्णनम् ।) विशां हि सेव्याः सरसारवावरा विश्वाविहायोहरयः सुसंवराः । साहस्यसाराः सलयाः सुसूरयः सारश्रियो वैरविशारसूरयः ॥ १॥ (पञ्चवर्गपरिहारेण छत्रबन्धः ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180