Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 171
________________ विज्ञप्तित्रिवेण्यां इत्थं नत्वा गुरूँश्चित्ते सुस्थिरः स्थिरसंयमः । श्रीजिनभद्रसूरीशान्नन्नन्ति विनयान्वितः ॥ ७ ॥ तत्रत्यस्य पं.पुण्यमूर्तिगणि-पं० लक्ष्मीसुन्दरगणि-पं०मतिविशालगणि-वा०लब्धिविशालगणि-पं०मतिराजगणि-प्रमुखसाधवः, प्र०तपःप्रभागणिनी-प्रवर्हयतिन्यः,सागेला-सा०करणा-सा धणपति-सा० वज्राङ्ग-श्रे० रूपा-भं० गुणराज-सा आसा-सा० पद्मसिंह-भं गुणराज-श्रे०हरिराजमुख्या महागारिणः, सौ० गङ्गादे -सौ.सोधू-सौ॰जासलदेवी-सौ०पालदेवी-प्राग्ग्रहराः श्रमणसेवकपल्यश्च तत्तदनुवन्दनाधर्मलाभमयोचिताशीर्वादकदलीफलप्रदानेन सम्यगानन्दमेदुराः सम्भावनीयाः । तथा श्रीमद्भिः सर्वदापि समुचितशिक्षाप्रे. षणे क्षणमप्युपेक्षणीयं न । तथाऽविनयविलसितादि तितिक्षणीयं क्षमाश्र. मणप्रवीणैः । तथाऽधुनाऽत्र किमप्यसमञ्जसासमाधिसदृशं नास्ति, तेनात्यन्तं श्रीमतां प्रसादाद्वयं सपरिच्छदा अपि समाहितास्तेष्ठीयामहे । अपरं चधातुर्विश्वविधाननैपुणमयात्याणेजगद्विश्रुता द्विज्ञानातिशयो यदीयवचने कोऽप्यद्भुतो वर्तते । भाले तेन लिपीकृतां तनुभृतां यन्मौब्यवर्णावली तत्तत्तत्त्वमहोपदेशसलिलप्लावैः प्रमाष्टिं क्षणात् ॥ १ ॥ तान् विस्मेरविद्याम्बुजिनीप्रसर्पद्यशःपरागैर्मुदितज्ञभृङ्गान् । परप्रतीक्ष्यान् जिनभद्रसूरिपादान् प्रणन्नन्ति स मेघराजः ॥२॥ इति लिखितलेखरङ्गत्प्रासादो परिचिरं परिस्फुरतु। . मम वन्दना पताका श्रीमन्जिनभद्रसूरिभ्यः ॥ ३ ॥ ॥ इति विज्ञप्तित्रिवेण्या ज्येष्ठकल्पविधानाद्यर्थप्रस्ताविका यमुनाकल्लोलाख्या तृतीया वोणः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180