Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
द्वितीया वेणिः। व्योम्नो मानं वेत्ति यौऽजःप्रकारै
बुंध्या काव्योऽप्येषु ते तीर्थराज ! । नो सोऽपीशो यद्गुणान् जस्पितुं ही
तत्को मानो मेऽत्र मूर्खत्वभाजः ।। २० ॥ यदाहुश्चिदानन्दसन्तानरूपं श्रितानां भयम्नं परब्रह्मयाताम् । दयालो ! तदेव त्वदीयं प्रपद्ये शरण्यं पदद्वन्द्वमाविष्कृतायम् ॥ २१ ॥
जयति जगतामर्तिच्छेदी युगादिजिनः परं
तदनु विजयन्ते योगीशा बुधा जयसागराः। तदधिमहिमस्तोत्रं हारं तदन्तिषदः कृति
दधदलमुरोदेशे भव्यो जनो जयतादयम् ॥ २२ ॥ जन्मजीवितगिरां सफलत्वं मङ्गलं च वृषभेश ! ममाद्य । यत्नतोऽसमसमांसनितान्तं यन्महावृषगतेऽधिगतोऽसि ॥ २३ ॥
इति हि नगरकोट्टालङ्कृतेरादिनेतुः
स्तवनमजनि पूर्ण हारबन्धाभिधानम् । अहह ! सुकृतयोगः कोऽपि मे स्फातिमागा
दिति वदति यथावत्प्राञ्जलिर्मेघराजः ॥ २४ ॥ तदित्थं यावता प्रस्तुतस्तवनादिविधानेन कृतकृत्या इव जाताः । इतश्च श्री चन्द्रोज्ज्वलसोमवंशविशदमुक्ताफलायमानावतारेण षट्त्रिंशद्राजकुलीशृङ्गारसारण चपलोच्छृङ्खलभूपाललक्ष्मीकरेणुकाचापलसंयमननिस्समानालानस्तम्भभूतोद्दण्डदोईण्डेन विषमविविधविकटसपादलक्षपर्वतमालावलगर्विष्ठाक्षोदिष्ठविपक्षक्षोणीनाथशिरोनिवेशितनिजाज्ञास्फारप्राग्भारेण प्रबलातुलशक्तिनृपतिमतल्लिकाविनयवेल्लच्छिरःकमलपुपूजयिषितचारुचरणेन्दीवरेण धनसमृद्धयुपहसितधनदेन सौराज्यजनितजनानन्देन सर्वषड्दर्शनविश्रामच्छायापादपेन विशिष्य श्वेताम्बरभिक्षुबलक्षपक्षपातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180