SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ द्वितीया वेणिः। व्योम्नो मानं वेत्ति यौऽजःप्रकारै बुंध्या काव्योऽप्येषु ते तीर्थराज ! । नो सोऽपीशो यद्गुणान् जस्पितुं ही तत्को मानो मेऽत्र मूर्खत्वभाजः ।। २० ॥ यदाहुश्चिदानन्दसन्तानरूपं श्रितानां भयम्नं परब्रह्मयाताम् । दयालो ! तदेव त्वदीयं प्रपद्ये शरण्यं पदद्वन्द्वमाविष्कृतायम् ॥ २१ ॥ जयति जगतामर्तिच्छेदी युगादिजिनः परं तदनु विजयन्ते योगीशा बुधा जयसागराः। तदधिमहिमस्तोत्रं हारं तदन्तिषदः कृति दधदलमुरोदेशे भव्यो जनो जयतादयम् ॥ २२ ॥ जन्मजीवितगिरां सफलत्वं मङ्गलं च वृषभेश ! ममाद्य । यत्नतोऽसमसमांसनितान्तं यन्महावृषगतेऽधिगतोऽसि ॥ २३ ॥ इति हि नगरकोट्टालङ्कृतेरादिनेतुः स्तवनमजनि पूर्ण हारबन्धाभिधानम् । अहह ! सुकृतयोगः कोऽपि मे स्फातिमागा दिति वदति यथावत्प्राञ्जलिर्मेघराजः ॥ २४ ॥ तदित्थं यावता प्रस्तुतस्तवनादिविधानेन कृतकृत्या इव जाताः । इतश्च श्री चन्द्रोज्ज्वलसोमवंशविशदमुक्ताफलायमानावतारेण षट्त्रिंशद्राजकुलीशृङ्गारसारण चपलोच्छृङ्खलभूपाललक्ष्मीकरेणुकाचापलसंयमननिस्समानालानस्तम्भभूतोद्दण्डदोईण्डेन विषमविविधविकटसपादलक्षपर्वतमालावलगर्विष्ठाक्षोदिष्ठविपक्षक्षोणीनाथशिरोनिवेशितनिजाज्ञास्फारप्राग्भारेण प्रबलातुलशक्तिनृपतिमतल्लिकाविनयवेल्लच्छिरःकमलपुपूजयिषितचारुचरणेन्दीवरेण धनसमृद्धयुपहसितधनदेन सौराज्यजनितजनानन्देन सर्वषड्दर्शनविश्रामच्छायापादपेन विशिष्य श्वेताम्बरभिक्षुबलक्षपक्षपातो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy