________________
१४
विज्ञप्तित्रिवेण्यां गीर्वाणपद्माप्यतिशायिनी सा तावच्च गीयेत मरुद्वीशा । बुधैर्न यावद्बहुधांहिभक्तेः शक्तिः प्रबुद्धा जिन तेऽस्तबाधा ॥ ८ ॥ जन्मभूषितनिजायतवंशं देशनाजनितभव्यशिवायम् । साधितेष्टसुखसङ्गमरङ्गं भद्रसान्द्रमभिनौमि सदङ्गम् ॥ ९ ॥ राकाशशाङ्काननमादिदेवं वन्दे युगादौ जगदुद्धरन्तम् । तं रङ्गदुत्तङ्गयशःसुरहं हरत्तमं लोकभवोरुकाराम् ॥ १० ॥ नय प्रभो ! सेवकमात्मसङ्गं जय प्रभावोद्वलितान्पङ्क !। नमन्महाराजकृतोरुभागधेय! प्रयच्छाऽविकलं चरित्रम् ॥ ११ ॥ वरं गृहं हाववती च नारी वा च लक्ष्मीर्भवतोऽनुभावात् । वरेण्यलावण्यवचास्ततोऽहं वहे तवाज्ञां भव मे शिवाय ॥१२॥ दर्शनं दुरितरोधि तावकं नाभिनन्दन ! भवेद्भवावधि । मजतान्मम मनोहिमरश्मिस्त्वद्गुणामलमहाम्बुनिधौ हि ॥ १३ ॥ महामोहमायत्तमस्तोमभानोरखण्डोत्तमज्ञानसङ्केतवास्तो।। त्रसस्थावरप्राणिमोहान्तकस्य स्तवासूत्रणात्ते जनः स्यादनंहाः ॥ १४ ॥ रवीन्दुप्रदीपप्रभूतप्रभाभ्योऽधिकं विस्फुरदर्शनं तेऽद्यजातम् । दयाद्री स्वदृष्टिं त्वमातिष्ठिपश्चेत् सुधाम्भो मदङ्गे न चित्ते विभाति॥१५॥ षडंहिवरखेलतु पादपङ्कजे तवाऽरुषं मे हृदयं सभन्द । कृताश्रयार्थे हि कृतिप्रकाण्डा यत्रासकृत् स्वर्द्धमतां वदन्ति ॥ १६ ॥ दलन्तं दरं भन्दमाकंदराधं दयाकन्दलीकन्दमानन्दसारम् । नतस्त्वां शुभंयुः कुकर्माण्यधस्तात् प्रकास्मि कहींश नम्रामर! श्राक।१७। धराधीशधीरं महोदध्यगाधं निरस्त क्रुधं प्रावृषेण्याब्दनादम् । लसन्मुक्तिलक्ष्मीवरं मुक्तमोहं महामोऽमलज्ञानमानन्दतोऽमुम् ॥ १८॥ रोचीवींचीप्रोल्लसद्देहदेशे सौम्याकारोत्प्रेक्षितान्तःप्रमोदे । शेषस्फूर्जद्योगलम्भप्रविष्टे दृष्टेऽधीशे जायतामिष्टलाभः ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org