Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 165
________________ १८ अथ श्रीतीर्थयात्रामहापुण्यपीयूष कुण्डारचितसवना इव सुतरां सुस्थिरस्वास्थ्यभाजः सपरिच्छदाः ससङ्घाः सुपरिणामाः पुरा यावद्वर्त्तामहे । इतः प्रतिवर्ष प्रतिनियतागमा श्रीपर्युषणाऽपि प्रत्यासीदिति । ततश्च तथा - विज्ञप्तित्रिवेण्यां दानशीलतपोभावरूपो धर्मश्वतुर्विधः । भृशं प्राप्तावकाशोऽभूदेष्यति ज्येष्ठपर्व्वणि ॥ १ ॥ अर्थमुक्तोऽपि दातॄणां करो गुरुतरो भवेत् । तत्पूर्णोऽपि पुनर्लातु घुरेवेति मे मतिः ॥ २ ॥ दानं दौर्गत्यनाशाय दानं दुरितदारकम् । आशाकल्पद्रुमो दानं प्रियं त्रिजगतोऽपि तत् ॥ ३ ॥ दानेन शासनौन्नत्यं यादृशा तादृशेन वा । तस्माद्दीक्षाक्षणारम्भे तद्वयापारि जिनैरपि ॥ ४ ॥ पश्य दानस्य सौभाग्यं वस्तुपालादयो यतः । जीवन्त इव मन्यन्ते यदुत्थयशसछलात् ॥ १ ॥ अहो ! दानसमं नास्ति जगत्रितयमोहनम् | यस्माद्दुष्टोऽपि तुष्टः स्यात्तथा शत्रुः सुहृद्यते ॥ ६ ॥ दान इत्यक्षरद्वन्द्वं विभज्य जगृहे जनैः । उदारैरादिमो वर्णः स्पर्द्धये वापरैः परः ॥ ७ ॥ राजानो दुर्जना मातापितरो गुरुबान्धवाः । त्रिन्ते केन दानेन ? चिरं विमुखिता अपि ॥ ८ ॥ कष्टानुष्ठान कर्त्तारो भूयांसः सन्ति पूरुषाः । केऽपि ते विरला एव शीलशुभ्राः सदैव ये ॥ ९ ॥ कलिदुर्वातपातेन कथञ्चिद्विधुरा अपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180