Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 160
________________ द्वितीया वेणिः । 3 तिनिविडतमसि निश्यपि पुरोवहमानाभिर्द्योतमानस्त्रद्योत रिंच्छोलीभिरन्तरान्तरा त्रुटत्तडिद्भिरिव समुज्जृम्भितचक्षुरायुष्याः कोटिल्लग्राम क्रमे - णाभिनव। तुङ्गशृङ्गरङ्गत्प्रासादे श्रीवामेयजिनेन्द्र-दर्शनेन सफलप्रयासा बभूवांसः । सङ्घो यावता पूजादिककर्म्मणि प्रवृत्तोऽथ तावता वयं तमिति स्तोतुं प्रवृत्ताः । तथा च -- अभिमतफललाभकरं चिन्तामणिपार्श्वनाथतीर्थकरम् । यरलवशषसहवर्णैः किञ्चिदहं वर्णयिष्यामि ॥ १ ॥ श्रीवल्लिराशिसुरसालरसालवाल ! वः श्रेयसाय स विहासरसोऽसहायः । अंहो विहाय सहसैव विशालबाहुः श्रेयः श्रियं सह वृषैरिह शिश्रिये यः ॥ २ ॥ यो विश्वसंशय बिलेशयरैशरीरो यः संवरारिसबलाहववारवीरः । यो हर्षवासर रविर्विषयारिरंसु यह संवर सरोवरशालिहंसः ॥ ३ ॥ शेषाहिवावहिशरा बहुहावहेला लीलाविलासविवशासु वशास्ववश्यः । सेव्योऽसि वासवविशां सविशेषवीर्य शौर्याश्रयोस्यविरलं सरलाशयोऽसि ॥ ४ ॥ अर्हन् यशः सलिलराशिशशी रसायाः सार्वः शिवालयविलासरसाय सोऽयम् । सर्व्वे सुरासुरसुरेश्वरसूरिसिंहाः संसारवासविरहाय सिषेविरे यम् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180