Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 154
________________ द्वितीया वणिः । अपरं चनद्यो नीचरता दुरापपयसः कूपाः पयोराशयः क्षाराः क्षुद्रबकोटसङ्कटतटोद्देशास्तटाका अपि । प्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिह त्वां भो मानस ! संस्मरन्नुपगतो हंसोऽयमानन्द्यताम् ॥ ४ ॥ पुनर्विवेकमुज्जीवयितुमियमन्योक्तिःरे चूत ! नूतन मदं मलिनानुकूल ! त्वां वर्णयन्तु कवयो न वयं वयस्य । शुक्लच्छदो यदिह शैवलभुग मरालो रोलम्बकोकिलकुलं कुसुमैर्द्धिनोषि॥५॥ तथा अये वापीहंसा निजवसतिसङ्कोचपिशुनं __कुरुध्वं मा चेतो वियति वलितान्वीक्ष्य विहगान् । अमी सारङ्गास्ते भुवनमहनीयव्रतभृतो निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ ६ ॥ इत्यादिभिर्नवपुराणैः सूक्तैर्नृपमनोऽनुजीवितं यावत्तावता तत्तल्लक्षणसाहित्यादिरसपरिमलितमतिर्नृपतिरमोघगङ्गाप्रवाहानुकारिण्या तत्तदूहप्रत्यूहाम्बुसारिण्या प्रवीणोचितवाण्या पश्यत्सु पार्षयेषु साशङ्कमिव तिष्ठत्सु राजकीयेषु विद्वत्सु सहास्माभिः स्वयमेव क्षणं गोष्ठीसुखमन्वभूत् । तदानीं च स कोपी न सदो मध्ये मूल् वा यदि पण्डितः । बालो वृद्धः पुमान् स्त्री वा यो नाश्चर्यरसं पपौ ॥ ७ ॥ .. अथ विद्याविनोदप्रियेण राज्ञा सज्ञापिताः सभासदो विद्वांसो -ब्राह्मणा केऽपि केऽपि राजन्याश्च सम्भूय यत्तत्फल्गुवलिंगतप्राय सम्यगूपं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180