Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 142
________________ द्वितीया वेणिः । उच्चाश्चूडाः शिरस्युच्चैर्दधाना ग्रामयोषितः । या विनापि तदाधारं घटानुत्पाटयन्त्यलम् ॥ १२ ॥ पशूनां परमा पुष्टिः क्षेत्रेषूत्पत्तिरुत्तमा । नव्यं रसायाः सागुण्यमहो ! देशस्य सौष्ठवम् ॥ १३ ॥ पीयूषपानपर्याप्तिग्राम्याणां सदां तथा । तद्वासस्थानं यो ग्रामः स किं मन्ये ऽमरावती ॥ १४ ॥ स्तन्यपानमबाल्येऽपि यथेच्छं दधिभोजनम् । घृतं च सलिलन्यायाद् ग्राम्याणामप्यहो ! सुखम् ॥ १५ ॥ तदित्थं देशचर्यानुभवपारदृश्वरी शेमुषीं सङ्घटयन्तस्तज्जानपदमध्यगा एव यावत्कतिचिद्दिनानि स्थाने स्थाने विलम्बितवन्तः तावदकस्मादेकतः षोषरेश यशोरथानीकस्य, अन्यतस्तु तुरुष्काधीशश कन्दरानीकस्य च सर्व्वतः " इदमागतं कटकम् इदमागतं कटकम् नश्यते पलाय्यते " इत्यादितुमलावो विश्वभयंकरो वीप्साबहुल: सर्वत्र प्रसारमापे - दानः । ततश्च क्षणं किंकर्त्तव्यताविमूढाः पुनः प्रणिधेयप्रणिधानप्रधानीकृतमान सोत्साहबलाः कथञ्चिदुपलब्धतादृशोपायनिरपायास्तमस्काण्डमिव तादृगुदप्रभयं विडुरडम्बरं सूर्योदयेनेव सङ्घपुण्योदयेन दूरमुज्जास्य सहसा पुनर्विपाशस्तटमुपसृपिम । नाव्यां तां च क्षणात्सममापदा पारयित्वा कुङ्गुदाख्यं घट्टं सङ्घट्टयन्तो मध्यदेश - जाङ्गलदेश - जालन्धरदेश - काश्मीर देश - सीमासन्धिभूतं स्वाचारनिष्ठमहाजनपूतं हिरिया - णाख्य- महास्थानामध्यासामासिम । तत्र च शुचिभूप्रदेशे प्रधानधान्यक्षेत्रे महाजलाशयं समया कानुकयक्षायतनस्य नातिदूरे शाद्वलसच्छायशाल्मलि महासालमूले माधवमासि धवलैकादशी वासरे सर्वोत्तम वेलायां प्रस्तुतशाखापुर वास्तव्येषु मिलितेषु महाजन मेलापकेषु, परः शतैर्भट्टचट्टा दिभिरुद्घाट्यमानेषु पुण्यपुरुषावदातेषु, मज्जुलधवलमङ्गलप्रवृत्तासु तासु तासु · Jain Education International For Private & Personal Use Only ३५ " - www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180