Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
विज्ञपित्रिवेण्यां
तां च तथाभूतामनिहितेष्वपि स्वयोगसन्निहितेषु मुश्लिष्टलक्ष्णतलेषु निश्चलेषु गण्डशैलेषु परमयतनया क्वापि पादन्यासमुपकल्पयन्तो निरायासमुत्तीर्णाः।
ततश्च पुनरकुण्ठानि गिरिशिरांसि त्वरितपादचारेण कुण्ठयन्त इव क्वापि तुगतरगिरिशृङ्गमधिरूढा हेमकुम्भमालोपशोभितप्रभूतप्रासादपतिदर्शनीयं विविधस्थानमनोरमं नेत्रानन्दामृतप्रपोपमान श्रीमनगरकोट्टापपर्यायं श्रीसुशर्मपुरमहातीर्थ दृग्गोचरीकृतवन्तः । ततश्च-- आः किं व्योम्नश्चयुतमिदमहो ! स्वर्गखण्डं प्रचण्डं ?
किं वाप्युद्भिद्य हृद्यः क्षितितलमसको निर्गतो नागलोकः । रङ्गगाङ्गेयकुम्भावलिकलितमहोदामहातिरम्यं
दर्श दर्श पुरमिति वितर्कास्पदं सम्भवामः ॥१॥
तदनु सङ्ग्रेन प्रथमतीर्थदर्शनप्रभवन्महानन्दानुसारेण दानधर्माधु. चितमनुल्लङ्घयता तीर्थभक्तिर्व्यक्तीचके । शनैः शनैरयत्नोपस्थितां कृत्रिमा सजलां नगरस्य परिखामिव पातालगङ्गाज्ञातिजामिव बाणगङ्गाम् "एगं पायं जले किच्चा, एगं पायं थले किच्चा" इत्यादि पदानि यतनाङ्गान्यअनुस्मरन्त उल्लाघा उल्लचितवन्तः। तदा च सङ्घागमनमाकर्ण्य चम्पकसकलापकलितमौलयो मसृणघुसृणरसाक्तोज्ज्वलाच्छपीनवसनाः,नागवल्लीवलचर्वणेनेव विमलवचनेन रञ्जितवदनाः, काञ्चनमयशस्त्रिकया वर्ण्यस्वर्णालकारेणेव भासुरितकटितटाः, स्वर्णशृङ्गारा निजरूपशृङ्गारितस्वर्णा वा, निरुपाधिप्रीतिगौराः पौरास्ते तेऽभ्यागतवात्सल्यविधित्सया सङ्घस्याभिमुखीना बभूवुः, इति । ततश्च तान् गुर्जरेभ्योऽप्यधिकितविवेकाँल्लोकान् साधूचितभाषया सम्भावयन्तस्तैरेव सह महत्युत्सवे जायमाने पुरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180