SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विज्ञपित्रिवेण्यां तां च तथाभूतामनिहितेष्वपि स्वयोगसन्निहितेषु मुश्लिष्टलक्ष्णतलेषु निश्चलेषु गण्डशैलेषु परमयतनया क्वापि पादन्यासमुपकल्पयन्तो निरायासमुत्तीर्णाः। ततश्च पुनरकुण्ठानि गिरिशिरांसि त्वरितपादचारेण कुण्ठयन्त इव क्वापि तुगतरगिरिशृङ्गमधिरूढा हेमकुम्भमालोपशोभितप्रभूतप्रासादपतिदर्शनीयं विविधस्थानमनोरमं नेत्रानन्दामृतप्रपोपमान श्रीमनगरकोट्टापपर्यायं श्रीसुशर्मपुरमहातीर्थ दृग्गोचरीकृतवन्तः । ततश्च-- आः किं व्योम्नश्चयुतमिदमहो ! स्वर्गखण्डं प्रचण्डं ? किं वाप्युद्भिद्य हृद्यः क्षितितलमसको निर्गतो नागलोकः । रङ्गगाङ्गेयकुम्भावलिकलितमहोदामहातिरम्यं दर्श दर्श पुरमिति वितर्कास्पदं सम्भवामः ॥१॥ तदनु सङ्ग्रेन प्रथमतीर्थदर्शनप्रभवन्महानन्दानुसारेण दानधर्माधु. चितमनुल्लङ्घयता तीर्थभक्तिर्व्यक्तीचके । शनैः शनैरयत्नोपस्थितां कृत्रिमा सजलां नगरस्य परिखामिव पातालगङ्गाज्ञातिजामिव बाणगङ्गाम् "एगं पायं जले किच्चा, एगं पायं थले किच्चा" इत्यादि पदानि यतनाङ्गान्यअनुस्मरन्त उल्लाघा उल्लचितवन्तः। तदा च सङ्घागमनमाकर्ण्य चम्पकसकलापकलितमौलयो मसृणघुसृणरसाक्तोज्ज्वलाच्छपीनवसनाः,नागवल्लीवलचर्वणेनेव विमलवचनेन रञ्जितवदनाः, काञ्चनमयशस्त्रिकया वर्ण्यस्वर्णालकारेणेव भासुरितकटितटाः, स्वर्णशृङ्गारा निजरूपशृङ्गारितस्वर्णा वा, निरुपाधिप्रीतिगौराः पौरास्ते तेऽभ्यागतवात्सल्यविधित्सया सङ्घस्याभिमुखीना बभूवुः, इति । ततश्च तान् गुर्जरेभ्योऽप्यधिकितविवेकाँल्लोकान् साधूचितभाषया सम्भावयन्तस्तैरेव सह महत्युत्सवे जायमाने पुरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy