________________
३९
द्वितीया वणिः। अपि च- अभयामलकीमुख्यवृक्षावाप्तफलैः क्वचित् ।
गान्धिकापणनामापि शङ्के विस्मारितं जनैः ॥ २१ ॥
अपरं च
पाद्याः कर्करिकाः क्वापि पत्सुखा वालुकाः क्वचित् । दृषत्खण्डाश्च तीक्ष्णाग्राः स्वोचितं चलतां व्यधुः ॥ २२ ॥ क्वापि समा विषमा वा क्वापि नीचैस्तथोन्नताः । नैकरूपा भुवः शैले दशा इव भवेऽङ्गिनाम् ॥ २३ ॥ क्वापीक्षुशाकटस्तोमः तिल्यं भागीणमेकशः । कौद्रवीणं च मौद्गीनं शालेयं क्वापि शाल्यते ॥ २४ ॥
तदित्थं स्थाने स्थाने नवीना नवीना वनराजीः परिचिन्वन्तस्तदीयाभिः पिच्छलाभिश्छायाभिस्तपनातपप्रसरागोचरीभवन्तः पर्वतीयान् जनानिव तदाचारान् शुचीन् साक्षात्कुर्वन्तोऽतिभीष्मग्रीष्मर्तुमपि तथाविधदेशस्वाभाव्याच्छिशिरर्तुमिव मन्वानाः सुखेन विपाशातटिनीं भूयोऽप्युत्तीर्य पदे पदे समृद्धान् महापामान् सम्भावयन्तो दर्शनेन तदधीशांश्चाभिमुखमायातानुचितालापैश्च रञ्जयन्तः क्रमेण पातालगङ्गातटमन्वसाम ।
अपि च-- .. यस्यां हि जलयन्त्रेषु दृष्ट्वा सक्त्वादिपेषणम् ।
के नाम न प्रशंसन्ति दाक्ष्यं पर्वतवासिनाम् ? ॥ १ ॥ पानीयमतिमुक्ताश्रि जानुदप्नाऽम्बुवाहिता। सान्द्रो ध्वनिः प्रवाहस्योनिद्रयेदूरगानपि ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org