SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्या प्रफुल्लैः कुसुमैर्वल्ल्यः समीरावेगवेल्लिताः। .. अवाकिरन्ति श्रीसद्धं गुरुं लाजैरिव स्त्रियः ॥ ११ ॥ मल्लिकाफुल्लकल्हारकेतकाख्याश्च शाखिनः । शाखाभङ्गेऽपि मधुरा ददुः पुष्पाणि सार्थिनाम् ॥ १२ ॥ अपि च-- क्वापि जम्बीरदाडिमाम्राणि नारङ्गबदराणि च । पाकिमानि विलोक्य स्यालोला कस्य न लोलुपा ? ॥ १३ ॥ फलानां कुसुमानां च कालाकालानपेक्षया । प्रसूतिः परमा दृष्टा तत्तीर्थातिशयादिव ॥ १४ ॥ खजूरीदाडिमीद्राक्षारम्भाभम्भायिकादयः । छायां कुर्वन्ति सङ्घस्य खाद्यं च ददते तथा ॥ १५ ॥ विनापि जालदी वृष्टिं निझरौघाः पदे पदे । मन्ये तैर्गिरयः सङ्घातिथ्यं कर्तुमुपस्थिताः ॥ १६ ॥ अपि चवहझरे चूतमहीरुहस्तले विश्रामयन् पान्थजनः पदे पदे । फलानि मिष्टानि यथेच्छमाहरन् स्वगेहसाध्यं सुखमभुते क्षणम् ॥१७॥ एकतश्च उदुम्बरवटप्लक्षाः परोलक्षाः पुरः स्थिताः । विश्रामस्थानमा नां सजना इव मानिताः ॥ १८ ॥ श्रीफलाश्च फलैः स्वीयैर्निजपादतलस्थितम् । . टाच्चक्यभमशिरसं त्रासयन्ति खला इव ॥ १९ ॥ अस्पृष्टमध्याः सूरस्य करैः क्वापि प्रसारिभिः । बिभ्रते कुलनारीणामाचारं किल कन्दराः ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy