________________
द्वितीया वेमिः।
३७ नमवेक्ष्य लमाः। अथ सपादलक्षपर्वतभुवं सह सधेनोल्लङ्घयितुं यथा वत् प्रवृत्ताः। यत्र च
षट्खण्डान्यतमं खण्डं यद्वा द्वीपान्तरं किमु । परदेश्या विकल्पन्ते दृष्ट्वा शिलोच्चयानिति ॥ १ ॥ उच्चगां तारकश्रेणि परिचेतुमिवोच्छ्रताः । शैलाश्चानंकषैः शृङ्गनिर्झरोगारनिर्मलैः ॥२॥ वीथ्यां वितस्तिमात्रायां सञ्चरन्नतियत्नतः । जनोऽधःपातभीत्यापि साधुचर्या श्रयत्यहो ! ॥ ३ ॥ दिवापि सिद्धाञ्जनवन्नेक्ष्यन्ते भूमिगैनरैः । वीक्ष्यन्तेऽधित्यकासंस्था वानरा इव वा नराः॥ ४ ॥ दुर्लभाम्रफलावात्यैः ककरैः कोपयन् कपीन् । फलं तैरत्रतां नीत्वा जनश्चक्रे समाहितः ॥ ५॥ भूमिदेशोद्गता वृक्षाः ये चाद्रिशृङ्गसङ्गताः । शीर्षे द्वयेऽपि ते साम्यावद्धस्पर्द्धा इवावृद्धन् ॥ ६ ॥ उच्चैः शाखाशिखालग्ना इव तारा निशागमे । वृक्षाधस्तात्सञ्चरतां कुर्वन्ति कुसुमममम् ॥ ७ ॥ विचित्रवर्णैः कुसुमैः सम्पन्ना वनराजयः ।
प्रादुष्कुर्वन्त्यकालेऽपि सन्ध्यारागसम्भ्रमम् ॥ ८ ॥ अन्यञ्च
ताहक्षतीर्थमाहात्म्यवृष्टिप्रतिहता इव । दवामयो वनप्लोषा नोत्तिष्ठन्ते कदाचन ॥९॥ मालतियूथिकाजातिप्रमुखास्तरुजातयः । पुष्पगुच्छैरभुननास्तरुण्यः स्वस्तनैर्यथा ॥ १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org