Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
३४
अपि च
कोमलचनकाहारः कनकमयाभरणजातपरिहारः । मुग्धगतिर्व्यवहारो ग्राम्यजनेष्वेष आचारः ॥ २ ॥ अदेयराजभागास्ते निरङ्कुशैक वृत्तयः ।
ग्रामीणा नागरौ स्तस्मात्कथंकारं हसन्ति नः ॥ ३॥ चिरायुषः सुसंस्थानाः सुबद्धदृढसन्धयः । ते हि कृतयुगोत्पन्ननरेभ्य उद्धृता इव ॥ ४ ॥
अपि च
――――――――――――
विज्ञप्तित्रिवेण्यां
कृतनापितकर्माणो हलकर्षादिकर्मभिः ः । पाणिपादेषु नैधन्ते नखास्तेषां शिखा इव ॥ १ ॥ महाकूपसमुद्रेभ्यो जलाकर्षणशेमुषी ।
दृष्टा ग्रामेयकेष्वेव यदि वा धूमयोनिषु ॥ ६ ॥ कृष्णोर्णामय वस्त्राणि वसाना ग्रामवासिनः । माञ्जिष्ठेष्वपि वस्त्रेषु दृष्टा नित्यमनादराः ॥ ७ ॥ शास्त्र शिक्षां विनाऽप्येषां मतिः स्फुरति निस्तुषा । आजन्मक्षीरपुष्टानामिदं लक्षणमादिमम् ॥ ८ ॥
यत्र च -
यासां वराशयश्वोला वराशयश्च सुन्दरः । अतोऽल्पधनयोगेऽपि पौरीभ्योऽप्यधिकाः सुखैः ॥ ९॥ चण्डाकैस्तु पामर्थ आपादतललम्बिभिः । यान्ति सम्मार्जनी कार्यं कुर्वन्त्योऽध्वन्ययत्नतः ॥ १० ॥ ग्रामस्त्रीणां न शृङ्गारो न संस्कारश्च तादृशः । तथापि तासां सौन्दर्य गुणाः प्रकृतिजाः खलु ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180