Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
विज्ञप्तित्रिवेण्यां
तदा चसारकास्तरुकोटराणि शरणीकुर्वन्ति तापार्दिता
हित्वा रङ्गममी विहङ्गमगणाः कुञ्ज भनन्तेऽजसा । वीथ्यः पान्थनखंपचोच्चरजसा जाता अमूर्दुर्गमा
स्तेजोराशिभिरुत्सृते दिनपतौ जाते ललाटतपे ॥ ५ ॥ ___ अयं नदपरिसरः, एते च सान्द्रद्रुमच्छायाः प्रदेशाः, एतेच तुङ्गतुरोगहीतपृषतशीतला अनिलाश्च यथासमयोपपन्न निरुपाधिसुखसाधनं तदस्य वचनं तथ्यं सम्भावयंस्तत्रैव सङ्घजनः समग्रोऽपि स्थिति व्यरचयत् ।
अथ च
प्रदेशे सजले केऽपि तस्थुः केऽपि तरोस्तले । आर्द्रदूर्वावणे केचित्पान्थानामीहशी दशा ॥ ६ ॥ हंसवत्सुचिरं कृत्वा जलकलिं नदाम्भसि । केऽपि निर्वापयामासुमनांसीव वपूंष्यपि ॥ ७ ॥ समाधिमानसौ जातः प्रयाणमकरोत्ततः ।
अथ क्रमात्समायातस्तलपाटकसन्निधिम् ॥ ८॥
तत्पुरोपवनेषु चतुष्पथेष्विवोद्गन्धिसौगन्धिकेषु मन्दमृदुमरुदन्दोलिताभिलताभिर्वीज्यमान इवातुच्छगच्छच्छायाच्छलेन च्छत्रेणाऽऽभूष्य. माण इव पिककोकचाषादिपक्षिकारैः स्वागतं तद्वनाधिष्ठाच्या पृच्छ्यमान इव क्वापि महाशोणाभ्यणे कीर्णकमलमकरन्द बिन्दुवृन्दसौगन्ध्यस्पृहणीये भूभागे प्रयाणविच्छेदमकरोत्सः । तत्र च पवित्रविकसितपद्मवनरामणीयकमनालोकितपूर्व निर्वर्णयन्तो जना एवमूहांचक्रुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180