Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
द्वितीया वणिः। विपाशापयसा छिन्नपिपासाः सङ्घपूरुषाः ।
स्वगेहनिर्विशेषेण सुखेन प्रस्थितास्ततः ॥ ९ ॥
सर्वतो विसारिणी सरिलक्ष्मी वामतः साक्षात्कुर्वतामधोऽधो विविधपादपान् सञ्चरतां तेषां व्यतीते कियत्यपि पथि साधुरिव परमोदकः सच्चित्तप्रकाश इवालब्धमध्यः स्त्रीचरित्रप्रकार इवासुगहनः क्षत्रिय इव महासत्त्वाढ्यः क्रीडकुरुरुकेकिबकचक्राङ्गचक्रवालशालितपरिसरः विस्मेरारविन्दवृन्दो महानेको नदः पुरो दृग्गोचरमवततार । दृष्ट्वा चेत्यूहांचकृवांस ।
नूनं यानतया निषेव्य सुचिरं धातारमाऽऽतूतुषद्
हंसः स्वीयकपक्षिजातिनियतस्थानाय चाभ्यार्थयत् । तुष्टोऽसौ तदिदं पदं हि विदधे व्याधाद्यगम्यं क्वचित्
तस्मादत्र पतत्रिणः प्रमुदिताः क्रीडन्त्यहो निर्भरम् ॥ १ ॥ परितोऽपि विसारिणा परितं पयसाऽत्यच्छगभीरभावभाजा। वनमेतदुदनराजधानीमिव सेवन्ति सुखं विहङ्गराजाः ॥ २ ॥ अपि चस्मितकोकनदं नदमभि रभसा सम्भूय सारसा एते । बिशमकरन्दास्वादनमत्ताः क्रीडन्ति निर्जीडम् ।। ३ ॥ अभिकजमकरन्दमापतन्ती स्थूलोन्नीलसशद्वभृङ्गमालाम् । अवलोक्य शिखी घनभ्रमेणोत्केको नृत्यति भासयत्कलापम् ॥ ४ ॥ . एवं च समन्तान्नदश्रियं केनचिद्वनेचरेण वर्ण्यमानां श्रुत्वा दृष्टुमिक रविरुच्चैः पुष्करदेशमारुरोह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180