SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ द्वितीया वणिः। विपाशापयसा छिन्नपिपासाः सङ्घपूरुषाः । स्वगेहनिर्विशेषेण सुखेन प्रस्थितास्ततः ॥ ९ ॥ सर्वतो विसारिणी सरिलक्ष्मी वामतः साक्षात्कुर्वतामधोऽधो विविधपादपान् सञ्चरतां तेषां व्यतीते कियत्यपि पथि साधुरिव परमोदकः सच्चित्तप्रकाश इवालब्धमध्यः स्त्रीचरित्रप्रकार इवासुगहनः क्षत्रिय इव महासत्त्वाढ्यः क्रीडकुरुरुकेकिबकचक्राङ्गचक्रवालशालितपरिसरः विस्मेरारविन्दवृन्दो महानेको नदः पुरो दृग्गोचरमवततार । दृष्ट्वा चेत्यूहांचकृवांस । नूनं यानतया निषेव्य सुचिरं धातारमाऽऽतूतुषद् हंसः स्वीयकपक्षिजातिनियतस्थानाय चाभ्यार्थयत् । तुष्टोऽसौ तदिदं पदं हि विदधे व्याधाद्यगम्यं क्वचित् तस्मादत्र पतत्रिणः प्रमुदिताः क्रीडन्त्यहो निर्भरम् ॥ १ ॥ परितोऽपि विसारिणा परितं पयसाऽत्यच्छगभीरभावभाजा। वनमेतदुदनराजधानीमिव सेवन्ति सुखं विहङ्गराजाः ॥ २ ॥ अपि चस्मितकोकनदं नदमभि रभसा सम्भूय सारसा एते । बिशमकरन्दास्वादनमत्ताः क्रीडन्ति निर्जीडम् ।। ३ ॥ अभिकजमकरन्दमापतन्ती स्थूलोन्नीलसशद्वभृङ्गमालाम् । अवलोक्य शिखी घनभ्रमेणोत्केको नृत्यति भासयत्कलापम् ॥ ४ ॥ . एवं च समन्तान्नदश्रियं केनचिद्वनेचरेण वर्ण्यमानां श्रुत्वा दृष्टुमिक रविरुच्चैः पुष्करदेशमारुरोह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy