SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्या एवं चाविच्छिन्नैरेव प्रयाणैर्निवृतिस्थानानि पुराणीव वनानि मु. श्चन् वल्लभारागोचितानि तरुणचित्तानीव वप्रान्तराणि साक्षात्कुर्वन् पच्यमानगोधूमसङ्कलानान्त्यजपाटकानिव क्षेत्रसीम्नः सुदूरं त्यजन् क्रमेण निश्चिन्दीपुरीपरिसरसरोवरान्तवर्तमानोदामविपिनोदण्डपद्मखण्डान्तरे कलहंसकलामनुभवन्निवासांचकार श्रीसङ्घः । अपि च कृताश्रितपरित्राणः सुरत्राणोऽस्ति भूधवः। परन्तपः पुरे तस्मिन्नाके नाकपतियेथा ॥ १ ॥ सोऽथाऽऽकर्ण्य सकर्णानामग्रणीः सङ्घमागतम् । चित्रीयमाणहृदयो द्रष्टुं सोऽप्यौत्सुकायत ॥ २ ॥ तुङ्गाङ्गतुरगारूढः प्रौढामात्यादिसङ्गतः । अदृष्टपूर्तीनिम्रन्थानुपेत्योचितमाचरत् ॥ ३ ॥ अपूर्वदर्शनान् साधून दर्श दर्श नरेश्वरः । विसिष्मिये समं पौरै राजहंसान्मरुयथा ॥४॥ तैस्तैस्तथाविधैर्धम्यरुपदेशैः सुरञ्जिताः । प्रमोदमेवं मनुजास्तदा पुरीश्वरादयः ॥ ५ ॥ (गुप्तक्रियः।) ..." वनमप्यभवद्धन्यं नगरी तु गरीयसी । प्रदेशोऽयं प्रशस्योऽभूयेन यूयमुपागताः ॥ ६ ॥ पुरा श्रुताः स्थ गोष्ठीषु श्रुतिभ्यामभ्युपायतः । पुण्योदयेन नः प्राप्ताः साम्प्रतं दृष्टिगोचरम् " ॥ ७ ॥ एबुं स्तुत्वा च नत्वा च भूमानानन्दतुन्दिलः । सम्मान्य सङ्घपं वेगाचतो धाम जगाम स ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy