________________
द्वितीया वेणिः।
२९ जललवणिमरम्या दर्शिताऽऽवर्तनाभि
- श्चललहरिभुजाभ्यामाह्वयन्तीव दूरात् ॥१॥ कासहंसपरिहासलीलया तं रिरंसुजनमुत्सुकयन्ती । नव्यशष्पवसना व्यलोकि सा सिन्धुदम्भवशतो वराङ्गना ॥२॥
सन्मार्गरोधिनी सर्वपथीनां तां च निम्नगाम् ।
शुद्धामिव मन्यमाना अतिचक्रमिम क्रमात् ॥ ३ ॥
तामुत्तीर्य च क्रमेण श्रीसङ्घो नानाग्रामानिवाऽऽरामानुल्लङ्घयन् श्रीजालन्धराननु प्रचचाल । चलिते च तस्मिन्विस्मितान्यलोके सकलमहीवलयलङ्घनजङ्गालाः करकृतकरवाला महाभुजा भुजावलमबलसम्पत्तयः पत्तयः केचिद्याष्टीकाः केचिद्बलाधिकाः पारश्वधिकाश्च, केऽपि दृढवपुष्का धानुष्काश्च केचन वीरकोटीराः काण्डीरा नैस्त्रिंशिकाश्च प्रोल्ललन्तः कूईन्तः पुरः स्फुरन्तो गर्जन्तो नानारूपप्राप्ता मूर्त्ता वीररसांशा इव स्वामिकार्यदक्षा बद्धकक्षाः पुरस्तादुच्चेलुः । तत्पृष्ठे च स्थौरीप्रष्ठा विशिष्टा भूयिष्ठास्त्वरया तुरगानपि मन्दगतिकानिव सम्भावयन्तः प्राचालिषुः । इत्थं च ते ते सङ्घजनाः केचिद्वाहनारूढाः केऽपि गुरुदेवभक्त्यतिशयात्पादचारिणः केऽपि मुक्तोपानहश्च वयमिव प्रस्थितवन्तः । तदा च प्रचलत्सङ्घजनाननोल्लसद्बहलकोलाहलनिनदैरासन्नवननिकुञ्जष्वकाण्डकल्पान्तापातातङ्कशङ्काशङ्कुशल्यितमनसः सम्भावितापदः श्वापदाः कान्दिशीकाः कथञ्चित् कापि निलीयावतस्थिरे। अन्यच्च तीर्थयात्रामनोरथप्रथितपृथुप्रभावास्ताघस्यानघस्य श्रीसङ्घस्य क्रमस्पर्शवशोल्लसत्सुकृतेन निराकृतांहोवजं तु रजोऽप्युच्चैर्विचचार।
तथा च
नियतं सङ्घलोकाघिलत्तोद्भूतो रजोवजः। धन्यंमन्यतया मन्ये नृत्यविस्म नमोऽङ्गणे ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org