SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ २८ विज्ञप्तित्रिवेण्यां ॥ अथ द्वितीया वेणिरारभ्यते ॥ तथा च, श्रीसङ्घस्य प्रयाणावसरे शुभोदर्कसम्पर्कशसिभिः शकुनैश्चेत्थं विजृम्भितम् , यथा सङ्घस्य प्रस्तुतपुण्याशासाफल्यं सम्भावयन्त्य इव सावशेषा आशाः पुण्यप्रकाशा आसन् । परमाराध्यसान्निध्यकृतमार्गविघ्नभञ्जनस्य यात्रिकजनस्य भाविसुखव्यञ्जना इव प्रभञ्जना अनु. कूलं ववुः । नास्ति किञ्चिद्युष्माकमवामदैवानां दुर्गममिति कथयन्तीव दुर्गा वामा शब्दं चकार । शङ्कुकर्णोऽपि स्वात्मनि प्रस्तावदक्षतामिवारोपयन् वामदिग्भागमाश्रित्य कोकूयामास । मौक्तिकाख्यः श्वा सव्याहांश्रयन् साधूनां प्रस्थानमङ्गले सानिध्यमिव व्यधात्। अपि चकुम्भोऽम्भोनिभृतोऽभ्यगादभिमुखं शङ्खो जुघोष क्षणं क्षोणीशाभिगमः सवत्ससुरभेरीक्षा च ढोल्लध्वनिः । फेरुमिरवश्वुकूज मधुरं जातत्वरस्तित्तिरि रेवं सच्छकुनावलीद्विगुणितोत्साहा वयं प्रस्थिताः ॥ १॥ ततश्च नातिदूर एव जम्बूकदम्बनिम्बसर्जार्जुनखर्जुरीप्रभृतिवनस्पतिश्रेणिसच्छाये बहुलकमलकिंजल्ककल्ककलितसौरभभास्वरेण सरित्तुङ्गा_लिहलहरिलीलांदोलनोद्धतपृषतशीतलेनानिलेन सेवनीयतया मनोहारिणि मुक्ताकणशङ्खवलक्षसिकतोल्लसद्भासि विपादतटिनीरोधसि सङ्घः प्रथमप्रयाणविराममकरोत् । ततश्च विकचकुवलयास्या सम्भ्रमद्भुङ्गमालो ज्ज्वलबहलकटाक्षी पीनचक्रस्तनाच्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy