________________
२७
प्रथमा वेणिः। अथ च शोभने दिने प्रशस्ते मुहूर्ते शुभकर्मप्रायोग्ये च योगे प्रियंकरणे उच्चैर्गृहस्थेषु ग्रहेषु सौम्यस्वामिहासम्पन्ने लग्ने यात्राहे च नक्षत्रे वर्तमाने सा० सोमाकेन श्रीतीर्थप्रणीनंसया च प्रेरितपरमप्रमोदोल्लासेन चोत्साहितः श्रीसङ्घः प्रस्थानमङ्गलमसाधयत् ।
मङ्गलं भगवान् धर्मो मङ्गलं जिनशासनम् ।
मङ्गलं तन्मतः सङ्घो यात्रारम्भोऽतिमङ्गलम् ॥ १ ॥ इत्येषा विज्ञप्तित्रिवेण्यां प्रस्तुतार्थप्रस्ताविका सरस्वतीकल्लो
लाख्या प्रथमा वेणिः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org