SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां तदा चसारकास्तरुकोटराणि शरणीकुर्वन्ति तापार्दिता हित्वा रङ्गममी विहङ्गमगणाः कुञ्ज भनन्तेऽजसा । वीथ्यः पान्थनखंपचोच्चरजसा जाता अमूर्दुर्गमा स्तेजोराशिभिरुत्सृते दिनपतौ जाते ललाटतपे ॥ ५ ॥ ___ अयं नदपरिसरः, एते च सान्द्रद्रुमच्छायाः प्रदेशाः, एतेच तुङ्गतुरोगहीतपृषतशीतला अनिलाश्च यथासमयोपपन्न निरुपाधिसुखसाधनं तदस्य वचनं तथ्यं सम्भावयंस्तत्रैव सङ्घजनः समग्रोऽपि स्थिति व्यरचयत् । अथ च प्रदेशे सजले केऽपि तस्थुः केऽपि तरोस्तले । आर्द्रदूर्वावणे केचित्पान्थानामीहशी दशा ॥ ६ ॥ हंसवत्सुचिरं कृत्वा जलकलिं नदाम्भसि । केऽपि निर्वापयामासुमनांसीव वपूंष्यपि ॥ ७ ॥ समाधिमानसौ जातः प्रयाणमकरोत्ततः । अथ क्रमात्समायातस्तलपाटकसन्निधिम् ॥ ८॥ तत्पुरोपवनेषु चतुष्पथेष्विवोद्गन्धिसौगन्धिकेषु मन्दमृदुमरुदन्दोलिताभिलताभिर्वीज्यमान इवातुच्छगच्छच्छायाच्छलेन च्छत्रेणाऽऽभूष्य. माण इव पिककोकचाषादिपक्षिकारैः स्वागतं तद्वनाधिष्ठाच्या पृच्छ्यमान इव क्वापि महाशोणाभ्यणे कीर्णकमलमकरन्द बिन्दुवृन्दसौगन्ध्यस्पृहणीये भूभागे प्रयाणविच्छेदमकरोत्सः । तत्र च पवित्रविकसितपद्मवनरामणीयकमनालोकितपूर्व निर्वर्णयन्तो जना एवमूहांचक्रुः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy