SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ द्वितीया बेणिः। किममी सलिलाधिदेवतानां प्रत्यक्षाः प्रसरन्त्यहो ! कटाक्षाः ।। किमु वा शुचि तन्निवासयोग्या तासां सौधपरंपरा जलान्तः ॥ १॥ किमन्यत् ? एके पद्मवनं दृशा निपिबन्तोऽङ्गुलिभिः पार्श्वगान् सौत्सुक्यमाहुः--" पश्यत पश्यत भोः ! कथममीषु कमलेषु सुगन्धलाभलोलुपा मधुपाः पतन्ति ? । कथं चाकृतपरपीडाः साध्वापीडा इव रसमाहरन्ति ।। अस्माभिरहो ! कूपमण्डकायैरियद्यावद्यन्नानुशीलितं तदपि गृहानिर्गतैदृष्टम् " इति । अन्ये तु दाडिमीफलेषु तेष्विव बीजपूरेषु फलितपुष्पितेषु तद्वदानेषु द्राक्षाखर्जूरीषु च चक्षुः क्षिपन्ति स्म, तदभिलाषपरासुखं नतु मुखम् ; इत्येवं यावत्तदभिनवदर्शनोत्पल्लवितचक्षुरानन्दः सङ्घस्तत्र प्रदेशे यावदास्ते, तावता " अभिगमणवन्दणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचियंपि कम्मं खणेण विरलत्तणमुवेइ ॥ १ ॥" इत्याद्यर्थजातं कृतार्थयन्निव श्रीदेवपालपुरीयः सङ्घो गुरुवन्दको डुढौके तथाविधातर्कितगुरुसमागमोत्कण्टकितः । तदा चास्माभिरपि तथाविधोपदेशरसायनेन सम्भावितः परमास्थास्थैर्य तथार्जिजत् स्वशासने यथा मिथ्यात्वकन्दकुद्दालेषु पुरुषेषु प्रथमां रेखां खल्वात्मनः समपुषत् । ततश्च " भवन्तोऽस्मदास्पदं पवित्रयन्तु स्वपादावधारणेन" इत्यवितथवताग्रहं तं कथञ्चित्सम्बोध्य पुरः प्रचेलिवांसः। ततश्चविपाशाकूलंकषायाः कूलमनुव्रजन्तः क्वचिद्वैतस्वतः क्वापिकुमुद्वतः कुत्रापि नडकीयाननूपदेशान् शाद्वलान् सरसान् दृग्गोचरयन्तो मध्यदेशं प्राप्ताः। .. यत्र गोसङ्घला प्रामाः बहुक्षीराश्च धेनवः । क्षीराणि प्रचुराज्यानि नक्रपेयानि तान्यपि ॥ १॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy