SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ३४ अपि च कोमलचनकाहारः कनकमयाभरणजातपरिहारः । मुग्धगतिर्व्यवहारो ग्राम्यजनेष्वेष आचारः ॥ २ ॥ अदेयराजभागास्ते निरङ्कुशैक वृत्तयः । ग्रामीणा नागरौ स्तस्मात्कथंकारं हसन्ति नः ॥ ३॥ चिरायुषः सुसंस्थानाः सुबद्धदृढसन्धयः । ते हि कृतयुगोत्पन्ननरेभ्य उद्धृता इव ॥ ४ ॥ अपि च ―――――――――――― विज्ञप्तित्रिवेण्यां कृतनापितकर्माणो हलकर्षादिकर्मभिः ः । पाणिपादेषु नैधन्ते नखास्तेषां शिखा इव ॥ १ ॥ महाकूपसमुद्रेभ्यो जलाकर्षणशेमुषी । दृष्टा ग्रामेयकेष्वेव यदि वा धूमयोनिषु ॥ ६ ॥ कृष्णोर्णामय वस्त्राणि वसाना ग्रामवासिनः । माञ्जिष्ठेष्वपि वस्त्रेषु दृष्टा नित्यमनादराः ॥ ७ ॥ शास्त्र शिक्षां विनाऽप्येषां मतिः स्फुरति निस्तुषा । आजन्मक्षीरपुष्टानामिदं लक्षणमादिमम् ॥ ८ ॥ यत्र च - यासां वराशयश्वोला वराशयश्च सुन्दरः । अतोऽल्पधनयोगेऽपि पौरीभ्योऽप्यधिकाः सुखैः ॥ ९॥ चण्डाकैस्तु पामर्थ आपादतललम्बिभिः । यान्ति सम्मार्जनी कार्यं कुर्वन्त्योऽध्वन्ययत्नतः ॥ १० ॥ ग्रामस्त्रीणां न शृङ्गारो न संस्कारश्च तादृशः । तथापि तासां सौन्दर्य गुणाः प्रकृतिजाः खलु ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy