Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 143
________________ 预定 नितम्बिनीषु, खेलनलीलामाकलयत्सु निखिलखलो च्छृङ्खलग्रामखेलकेषु, गन्धर्वविद्यां विशदयत्सु गन्धर्वजनेषु, दानधर्म्मायो द्धृषितरोमसु जायमानेषु दातृजनवपुष्षु, पुष्यमाणेषु तैस्तैः कालोचितेषु तेषु तेषु रसेषु; सुश्राद्धाचारधूरीणस्य तथाविधोदारकार्यप्रवीणस्य साधुश्रेष्ठ सोमाकस्यानिच्छतोऽपि सङ्घाग्रहात्तथाविधां योग्यतामवधारयद्भिर्विधिवत्सङ्गाधिपतिपदं व्यदायि । तेनाऽपि पात्रापात्रसापेक्षं दानमदायि । विशिष्य सोऽपि मुल्कळकरकुड्मलनिर्गतेन ताम्बूलादिना देयवस्तुप्रकारेण तथा रञ्जितो यथा प्राचीनानपि सङ्घपुरुषान् विस्मारितवान् यदि भविष्यतीति । किं बहूच्यते, ह्युत्सवोऽयं सर्वाङ्गसुन्दरः संवृत्तः । तदा च मल्लिक वाहननिवासिना साधूद्धरेण पाश्चात्यवाहनपदं गृह्णता कुलमप्युद्धृतम् । अपि च सं० मागटपौत्रः साधुदेवाङ्गजो महाधरपदमुद्धरः सम्मदात्समुपादात् । अन्येऽपि साधुनीवा - साघुरूपा - साधुभोजाख्यास्त्रयो महाधरतामेवाधार्षुः । सैल्लहस्त्यं तु बुच्चासगोत्रीयसाधुजिनदत्तसुश्राव के निदधे । एतैश्च सङ्घपत्यादिI भिर्यदवदानमाधायि तद्वयं वक्तुं न शक्ताः, परन्तु तत्करणीय चिन्तनप्रभावजः पुलकस्त्वद्यापि नोदास्ते । किन्तु - विज्ञप्तित्रिवेण्यां साघम्मिक वात्सल्यप्रमुखो यो विधिस्तदा । चक्रे वक्रेतराकूतैः स तैरेव भवेद्यदि ॥ १ ॥ अथ कृतकृत्येषु तेषु तेषु सङ्घपुंस्सु द्वितीयदिने तदवदानं दृष्ट्वा गर्जन व्याजेन [a]गुणानुद्गृणन् तद्दानस्पर्द्धयेवानिवारितप्रसराभिः साराभिः सलिलधाराभिः श्रीष्मताडितां पृथिवीमाश्वासयन्नदृष्टपूर्वमहा वर्षो पलवर्षेण पान्थान् यथा कथञ्चित्कातरयन्नतिप्रचण्ड पवननिपातेन पटकुटीकुटीर कादि विसंस्थुलयन् माघवोऽवर्षीदिति हेतोस्तत्र महात्रतमिता वासरा अवस्था Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180