Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२८
विज्ञप्तित्रिवेण्यां ॥ अथ द्वितीया वेणिरारभ्यते ॥ तथा च, श्रीसङ्घस्य प्रयाणावसरे शुभोदर्कसम्पर्कशसिभिः शकुनैश्चेत्थं विजृम्भितम् , यथा सङ्घस्य प्रस्तुतपुण्याशासाफल्यं सम्भावयन्त्य इव सावशेषा आशाः पुण्यप्रकाशा आसन् । परमाराध्यसान्निध्यकृतमार्गविघ्नभञ्जनस्य यात्रिकजनस्य भाविसुखव्यञ्जना इव प्रभञ्जना अनु. कूलं ववुः । नास्ति किञ्चिद्युष्माकमवामदैवानां दुर्गममिति कथयन्तीव दुर्गा वामा शब्दं चकार । शङ्कुकर्णोऽपि स्वात्मनि प्रस्तावदक्षतामिवारोपयन् वामदिग्भागमाश्रित्य कोकूयामास । मौक्तिकाख्यः श्वा सव्याहांश्रयन् साधूनां प्रस्थानमङ्गले सानिध्यमिव व्यधात्। अपि चकुम्भोऽम्भोनिभृतोऽभ्यगादभिमुखं शङ्खो जुघोष क्षणं
क्षोणीशाभिगमः सवत्ससुरभेरीक्षा च ढोल्लध्वनिः । फेरुमिरवश्वुकूज मधुरं जातत्वरस्तित्तिरि
रेवं सच्छकुनावलीद्विगुणितोत्साहा वयं प्रस्थिताः ॥ १॥
ततश्च नातिदूर एव जम्बूकदम्बनिम्बसर्जार्जुनखर्जुरीप्रभृतिवनस्पतिश्रेणिसच्छाये बहुलकमलकिंजल्ककल्ककलितसौरभभास्वरेण सरित्तुङ्गा_लिहलहरिलीलांदोलनोद्धतपृषतशीतलेनानिलेन सेवनीयतया मनोहारिणि मुक्ताकणशङ्खवलक्षसिकतोल्लसद्भासि विपादतटिनीरोधसि सङ्घः प्रथमप्रयाणविराममकरोत् ।
ततश्च
विकचकुवलयास्या सम्भ्रमद्भुङ्गमालो
ज्ज्वलबहलकटाक्षी पीनचक्रस्तनाच्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180