Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
तत्कीदृशम् -
प्रथमा वेणिः ।
धार्मिकोऽपि जनो यत्र चित्रं जीवार्द्दको न हि । न चापविद्या कुशलो मार्गणानपि नास्यति ॥ १ ॥
तत्र च वर्त्तमानाः कांश्चन परतीर्थ्यानपि जिनशासनानुकूलमनस्कान्, कांश्चन नवनवाभिग्रहविशेषप्रदानैश्च श्राद्धानिव वाडवक्षत्रियवैश्यान् कृतार्थान् कुर्वन्तस्तथाविधधम्र्मोपदेशोल्लसद्देश नाप्रदीपकलिकोज्नृम्भणेन कापथसञ्चरिष्णून् जनान् सत्पथपान्थतां कांश्चन प्रापयन्तः पुण्यफलाः कियतीरपि कालकलास्तत्रैवातिवाहयांबभूविम । अन्यदा च तथाविधसर्वविकृतित्यागमयाभिग्रहग्रन्थि समाप्तिसत्यंकारानुरूपवस्तुक्रयविक्रयव्यवहारिणा पितृहरिश्चन्द्रसहचरेण सा० शिवराजसु श्रावकेण परमनैष्ठिकेन समाचञ्चूर्यमाणे सङ्घवात्सल्येऽनुष्ठीयमाने च सङ्घसत्कारे तोष्यमाणे यथौचित्येन याचकस्तोमे गायत्सु सर्व्वलोकप्रकटं गायनेषु परिसर्पत्याकाशं स्वग्गिणामिदं वृत्तं निवेदयितुमिव वादित्रनिनादे शुभवे - लायां ग्रामठकुरादिलोकसमक्षं श्री आदिजिनप्रतिमां प्रत्यतिष्ठिपामतमाम् ।
एवं तोष्ट्यांचकम च ।
तंतंतुतातो तीतेतिः, तांतांतां तततततुत । नृनां निनुन्ननानैना अन्नेनो न इनो ननु ॥ १ ॥ सम्पन्नमोक्षावसथो विकल्मषः समापयंस्तामसमर्थमोपमः । सनातनोद्दामसमृद्धिशस्यः स वः प्रदत्तामसमं समुद्धरम् ||२|| वन्दितो वृषभेश ! त्वं महामहिममन्दिर ! | महाशयस्य भक्तस्य समाधिभरमीश्वर ! ॥ ३॥
( अष्टारचक्रम्, परिधिश्लोकः, क्रियागूढश्च । )
Jain Education International
२५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180