Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 121
________________ विज्ञप्तित्रिवेण्या स्मयं क्षयं नयन्तो ये कुप्रावचनिकाङ्गिनाम् । सम्यग्धर्मोपदेशेन पुनन्त्येनं जनं पुनः ॥ १॥ (चामरबन्धः।) वारम्वारं हरन्ते ये सूर्या इव वचोंऽशुभिः । जगद्दर्वासनाध्वान्तवातं ततं द्रुतन्वतः ॥ २ ॥ (चामरबन्धः।) इति चित्राणि । अपि चाविकलसकलसकलमञ्जुलकविकुलविमलमुखपद्मपद्मनदोद्गच्छदतुच्छपिच्छलबहुलरसपेशलसरस्वतीसुरसरस्वतीविलसत्सरलतरलसमुज्ज्वलाविरलगद्यपद्याद्यमयलक्षणान्वेषिकीप्रकटनाटकालङ्काराद्यानवद्यहृद्यविद्याविलाससुस्थूलकल्लोलमालारङ्गत्तुरङ्गतरङ्गततितरत्कान्तकीर्तितरुणकलहंसिकालाध्यतमा ये शोभन्ते। याँश्च निर्मलगुणपरीतान् सदाऽमलकोपमानमुक्तान् समुज्ज्वलान् सद्वृत्तान् हारानिव हृदयावनिभागान्नापसारयन्ति क्षणमपि गुणगृह्या महान्तः । यैश्च चित्रकृच्चरित्रैर्जगज्जैत्रातिमात्रतरः सम्पदन्धम्भावुकसर्वजनीनस्वास्थ्यभरलुण्टाको विवेकोत्सेककुट्टाकदुर्विधः कुसुमायुधः शान्तदान्तैरपि पराजित्यानङ्गीकृतः ।येभ्यः सदभ्यस्तप्रशस्तवास्तवस्तुत्यपवित्रचरित्रविचित्रशतपत्रपद्मपद्महूदेभ्यः प्रभूतां परिस्तृतस्वर्भूभुवोऽन्तराला विशालामुत्कल्लोलमालां स्फुरत्कीर्तित्रिदशशैवलिनी स्थाने स्थाने श्रुतिपुटाञ्जलिभिः पायं पायं प्रायः के के विबुधविसरास्तुष्टिपुष्टिजुष्टा न समापनीपद्यन्ते । येषु च वर्यचातुर्यगाम्भीर्योदार्यस्थैर्यार्जवमाईवमहिमगरिमादिमा रमणीयास्तत्तद्गुणगणाः कलियुगभयत्रस्ता इव युगपद्वास विद. धति । अपि च लब्धप्रतिष्ठा नवसु ग्रहेषु ये सूरभूता अपि भूतलेऽस्मिन् । चित्रं न साई विबुधैर्विरोधं हवन्ति विश्वं न च तापयन्ति ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180