Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
प्रथमा वणिः । वनानि नन्दनायन्ते विमानन्ति महागृहाः । दातारः स्वर्द्धमायन्ते यत्रामरावतीसमे ॥ ६ ॥ जना धनैर्यत्र परं जयन्ति दानेन सर्वान्नपि रञ्जयन्ति । कलिप्रभावं परिगञ्जयन्ति देवान् गुरुश्चापि सभाजयन्ति ॥७॥ कूलङ्कषाशालितसन्निकर्षेऽत्राभ्रंकषावासलसद्ध्वजेषु । विसृज्य चापल्यगुणं स्वकीयं श्रियः स्थिरा आढ्यगृहेष्वभूवन् ॥८॥ यस्मिन्नन्यान्यदेशीया नैगमा लाभक निवसन्ति सुखं पद्माकरे मधुकरा इव ॥ ९॥
तत्र श्रीजिनमतप्रभावकश्रावकसङ्कुले श्रीजयसागरोपाध्यायाः, मेघराजगणि-सत्यरुचिगाण-पं० मतिशीलगणि-हेमकुञ्जरमुनि-पं. समु(मय)कुञ्जरमुनि-कुलकेशरिमुनि-अजितकेशरिमुनि-स्थिरसंयममुनि-रत्नचन्द्रक्षुल्लकपुरोगप्रोत्सर्पत्परमार्थसाधनाभियोगसुस्थितमनोवाकाययोगसारानगारपरिवारप्रसाधिताध्याया वर्तन्ते । तान् श्रीजिनभद्रसूरीश्वरांस्तथाभूतॉस्ते श्रीजयसागराभिषेकाः सादरमप्यपास्तदरं सबहुमानमवमतमानं साञ्जसमप्यनसमञ्जसं सप्रश्रयं सविनयं सहर्ष सरोमोद्धर्ष सानन्दं सविस्मयं त्यक्तस्मयं सोल्लासं सप्रकाशं दिवसकरसम्मिता. वर्त्तवन्दनेन सुखसम्पत्तिसाधनेन शिवाध्वस्यन्दनेन दुष्कर्ममर्मशिलोचयच्छेदनसक्रन्दनेन घनाघनेनेव विनयाङ्करविपिनमुल्लास्य आलस्यं च परास्य सुस्फीतिपुण्यप्रीतिस्यूतसयुक्तिभक्तिभावं प्रकाशसञ्ज्ञवो गलितम. न्यवो विज्ञपयन्ति । पुनरेतदर्थसङ्ग्रहश्चेत्थम्---
नम्यान् प्रणम्य सम्यक् श्रीअणहिलपत्तनाभिधानपुरे । संस्थायुकान् सतन्त्रान् श्रीमज्जिनभद्रमूरिवरान् ॥ १ ॥ श्रीसिन्धुदेशमध्यगमल्लिकवाहणपुराज्जगत्ख्यातात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180