SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तित्रिवेण्यां त्रैलोक्यलोकतिलकोऽस्ति जिनो गुणर्या तस्याऽप्युपर्यहमिति प्रमदादिवोच्चैः । नृत्यत्यशोकविटपी चटुलैर्दलैः किं ? यद्धर्मसद्मनि स धर्मजिनः शिवाय ॥ २० ॥ भवाभ्यन्तरे कर्मधर्माकुलत्वाद् गुणश्रेणिनिश्रेणिमालम्ब्य योऽलम् । सुखं मुक्तिवातायनं प्राप्य शेते सदा निर्वृतः शान्तये स्तात्स शान्तिः॥२१ कुन्थु कान्त ! नमस्कुरु, प्रियतमे ! कः क्षुद्रनन्तुं नमेत् ? ___ भर्तः ! श्रीतनयं वदामि, मदनः किं ? नैष सूरात्मजः । किं मन्दोऽयमयि प्रभो ! नहि जगत्प्रद्योतकस्तीर्थकृत् ; दम्पत्योरिति वक्रवाक्यविषयः पुष्यात्सुखान्येष वः ॥ २२ ॥ पूर्वोपार्जितपापकर्मपटलान्येधन्ति यत्राङ्गिनां ___ खद्योतन्ति मृगाङ्कचण्डकिरणाद्या यत्र तेजस्विनः । विश्वव्यापकमप्यनक्षविषयं यद्भासते सर्वतः तज्ज्योतिः प्रणिदध्महे भयभिदे देवारतो नापरम् ॥ २३ ॥ देवो वाङ्मनसातिगोचरगुणोऽर्वाचीनदृग्देहिनां ___ माल्लः पल्लवयेन्मतिव्रततिकां सोऽयं वसन्तोपमः। यस्माद्विश्वजनप्रमोदजननीमासाद्य रम्यां रमां भव्यारामगणा इह प्रतिदिनं सेव्या न कस्याभवत् ॥ २४ ॥ यो ध्यायमानोऽपि हि कृष्णवर्णस्तनोति सद्धर्मधियं बुधानाम् । सुश्यामलश्रीजलदायमानो जयत्यधीशो मुनिसुव्रताख्यः ॥ २५ ॥ तापं तापमपारदुस्तपतपः सद्ध्यानशातासिना छिन्दानं तरसात्मकर्मगहनं दृष्टुनमादीक्षणात् । आत्मोच्छेदभियेव नो ववृधिरे केशा नखा यस्य वै श्रामण्ये विहरन्नमिर्जिनपतिः सम्पत्तये जायताम् ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy