SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमा वेणिः। विलसदतुलशुक्लध्यानसद्दुग्धसिन्धो रविरललहरीभिः प्रोद्गताभिः प्रकर्षात् । हिमहिमकरगौरा यत्तनुः प्लावितेवाऽ शुभदशुभभिदे स्यादेवचन्द्रप्रभोऽसौ ॥ १३ ॥ कृपामृताब्धिः सुविधिः समाधि सन्धातुमुत्साहयतां मनो वः । यस्माद्बुधाश्चिन्तितवस्त्ववाप्य तृणाय चिन्तामणिमप्यमंसत ॥१४॥ अभ्रान्तवृत्तिमधुरो हरिणाश्रितोऽयं भव्याञ् जनानवतु शीतलशीतलांशुः । यबिम्बमुज्ज्वलकलं भृशमीक्षमाणा लोकत्रयी प्रमदतः कुमुदांबभूव ।। १५ ॥ श्रेयांसः श्रितवत्सलः सृजतु वो नित्यं श्रियं श्रायसी पञ्चाङ्गप्रणिपातनिम्मितिवशाद्यत्पादपीठाग्रतः । रेजुर्म रजोऽवगुण्ठननिभाद्भालेषु भन्यात्मना - मेते योग्यतमा इतीव तिलकाः पुण्यश्रिया निम्मिताः ॥१६॥ स्वभूर्भुवःस्थायुकलोकपूज्यः श्रीवासुपूज्यो जयताज्जगत्याम् । सस्पर्द्धयेव श्रमणत्वलक्ष्म्या यस्मिंस्तनुश्रीरपि भाति रक्ता ॥१७॥ कलियुगतया भीष्मग्रीष्मे प्रसर्पति भूतले___ऽजनिषत कृशा आशानद्यो मदीयमनोभुवि । विमल ! तदलं वर्षत्वेषा प्रसादपयोभरं तव पदपरीष्टिस्तत्पूरं सुवृष्टिरिवोच्चकैः ॥ १८ ॥ सभाजनप्रीणन कृत्सभाजनो महोदयस्थो विलसन्महोदयः । यकः सदाऽनन्तगुणालिनिर्मलो मनःकपिं पातु नताननन्तजित् ॥ १९ ॥ - ( गूढेकक्रियम् ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy