Book Title: Vignaptitriveni
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 115
________________ विज्ञप्तित्रिवेण्यां तथा गूर्जरदेशस्योपमानं यदि गूर्जरः॥१॥ यत्र प्रामा इवारामाः सदाशुकविराजिताः । निवासा इव कासारा लक्ष्मणश्रेणिसङ्खलाः ॥ २॥ तत्र लसल्लक्ष्मीदेवीनिवासकमलोपमानं अणहिल्लपाटकं नामपत्तनम् । अश्रान्तोद्भवदुत्सवोत्सृतमुदुल्लोलावलीसङ्कुलं । रङ्गभूरिसितच्छदं शुभति यत्पद्माकराम्भो भूवि । यत्रोच्चैः स्फुटपुण्डरीकपडलभ्रान्त्या भ्रमचेतना रम्ये हर्म्यगणे सुधाधवलिते नूनं निलीना रमा ॥ १ ॥ मुक्तामणीविद्रुमशुक्तिशङ्खान् राशीकृतान्वीक्ष्य यदापणेषु । लोकैर्वितत जलावशेषश्चित्रीयमाणैर्हृदये पयोधिः ॥ २॥ अनेकसूर्यावलिशालिमध्यं नानाबुधाढ्यं बहुमङ्गलं च । श्रीदैर्महेशैरमितैः परीतं यत् पत्तनं खं प्रति जाहसीति ॥ ३ ॥ __ सन्नरागमना यत्र मुनिपर्षच्च भूभृताम् । . राजहंसा इव जनाः सर्वदा मानसङ्गताः॥ ४ ॥ यत्र च कलाकीलालकल्लोला लोकाः केलिकुलाकुलाः । कलिकालेऽकलङ्काला लीलां ललुः कलां किल ॥ ५॥ (द्विव्यञ्जनचित्रम् ।) बुधा इव जना यत्र चित्तरङ्गोपशोभिताः । मनुष्येशा इवावासा मत्तवारणराजिताः ॥ ६ ॥ किं च चिरन्तनपुरुषातिशायिभविष्यत्सप्रभप्रभावकश्रावकहृदयशयाखवंगर्वसर्वस्वापहारिहारिचरितत्रिभुवनप्रशंसनीयत्रिभुवनपालदेवकुलकाननो. ल्लासभासनसुरभिसमयानुकारिकाश्मीरदेवीमहासतीसदुदरस्फारवैडूर्यवर्यवसुन्धराखनिसम्भवदतुल्यामूल्यमहाय॑प्रातिहार्यावार्यजनस्तुतापत्नरत्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180