Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
साङ्गणचामुण्डराजयोर्मेलापके गत्त्वा प्रसृतः, ऊचे च रे सौरेष्ट्रौ ! गृह्णीतं करे शस्त्रं यद्यस्ति तेजः। इत्युक्त्वा तच्चक्रे । यद्देवैदिवि शिरोधूनितं कुर्वद्भिर्ददृशे । हतौ साङ्गणचामुण्डराजौ, शोधितं रणक्षेत्रम् । पालिताः स्वे परे पालनार्हाः । प्रविष्टो वीरधवलो वामनस्थलीमध्यम् । गृहीतं शालकयोः कोटिसङ्ख्यं पूर्वजशतसञ्चितं कनकं, चतुर्दशशतानि दिव्यतुरङ्गमाणां पञ्चसहस्राणि तेजस्वितुरङ्गमाणां अन्यदपि मणिमुक्ताफलादि । जितं जितमिति उद्घोषः समुच्छलितः । स्थितस्तत्र मासमेकम् । ततो वाजोमानगजेन्द्रचूडासमावालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः । द्वीपबेटपत्तनेषु प्रत्येकं बभ्राम । धनमकृशं मिलितम् । एवं सौराष्ट्रजयं कृत्वा समन्त्री राणो धवलक्ककं प्राविक्षत् । उत्सवा उत्सवोपरि परिपुस्फुरुः । तत्र प्रस्तावे चारणेन दोधकपादद्वयमपाठि
"जीतउं छहि जणेहिं सांभलि समहरि वाजियइ" । एतावदेव पुनः पुनरपाठीत् नोत्तरार्द्धम् । गतश्चारणः स्वस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्रौ तस्मै लंचामदुः । सोऽपि सर्वमग्रहीत् । एवं ग्राहं ग्राहं परितापिते, एकदा प्रातः सभायां बहुजनाकीर्णायां राणाग्रे उत्तरार्द्धमप्यपाठीत्
"बहुं भुजि वीरतणेहिं चिहुं पगि ऊपरवटतणे" ॥२६॥ सर्वेऽपि चमत्कृता राजन्यकाः । अहो प्रपञ्चेनानेनास्मान्वञ्चयित्वा निर्यासे तत्त्वमेवोक्तम् । पुनः सविशेषं ददुः ।
तदा भद्रेश्वरे वेलाकूले भीमसेनो नाम प्रतीहारः । स आत्मबली कस्याप्याज्ञां न मुनते धनी च । तस्मै वीरधवलो राजाऽऽदेशमदीदपत् , सेवको भव । “यद्दीयते तल्लभ्यते" इति न्यायः । वीरधवलस्तद्विग्रहाय गूर्जरधराराजपुत्रानमेलयत् सबहुसैन्यम् । भीमसेनो बलेन प्रबलः । उभयपक्षेऽपि बलवत्ता ।
अत्रान्तरे जाबालिपुरे चाहमानकुलतिलकः श्रीअश्वरराजशाखीयः केतूपुत्रसमरसिंहनन्दनः श्रीउदयसिंहनामा राजकुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदरा: सामन्तपालानन्तपालित्रिलोकसिंहनामानो दातारः शूरास्तद्दत्तग्रामेन न तृप्तिमादधते । धवलक्ककमागत्य श्रीवीरधवलं द्वाःस्थेनावाभणन् । देव वयममुकवंश्यास्त्रयः क्षत्रियाः सेवाथिनः आगताः स्मः, यद्यादेशः स्यात्तदा आगच्छामः । राणकेनाहूतास्ते तेजआकृतिश्रमादिभिः शोभना रुचिताः । ते तस्य परस्परं पृष्टाः को ग्रासो वः कल्पते । ते प्रोचुः । देव ! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः। राणकेनोक्तमियता धनेन शतानि भटानां सङ्गच्छन्ते, किमधिकं यूयं करिष्यथ । न दास्यामीयदिति ते बीटकदानपूर्वं विसृष्टाः तदा मन्त्रिभ्यां विज्ञप्तं स्वामिन्नते विमुच्यन्ते, पुरुषसङ्ग्रहाद्धनं न बहु मन्तव्यम् ।
वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥२७||
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269