Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 258
________________ यवना: यावदावासान् गृहीष्यन्ति तावत्पतितो वस्तुपालः कालः । हन्यन्ते यवनाः । उच्छलितो बुम्बारवः । केचिद्दान्तङ्गलीर्गृह्णन्ति, अपरे तोवां कुर्वन्ति, न तु छुट्टन्ति । एवं तान्हत्वा तच्छीर्षलक्षैः शकटानि भत्वा धवलक्ककमेत्य मन्त्री स्वस्वामिनमदर्शयत् । श्लाघितश्च तेनायं न ध्वानं तनुषे न यासि विकटं नोच्चैर्वहस्याननं दोन्नो लिखसि क्षिति खुरपुटै वज्ञया वीक्षसे । किन्तु स्वं वसुधातलैकधवल ! स्कन्धाधिरूढे भरे तीर्थान्युच्चतटीविटङ्कविषमाण्युल्लङ्घयन्लक्ष्यसे ॥६९॥ ततः परिधापितः विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः । द्रम्मेण पुष्पं लभ्यते । एवं पुष्पस्रक्व्ययो लोकैः कृतः । इतश्च नागपुरे साधुदेलासुतः साधुपूनड: श्रीमोजदीनसुरत्राणपत्नीबीबीप्रतिपन्नबान्धवोऽश्वपतिगजपतिनरपतिमान्यो विजयते । तेन प्रथमं शत्रुञ्जये यात्रा त्रिसप्तत्यधिकद्वादशशतवर्षे बब्बेरपुराद्विहिता । द्वितीया सुरत्राणादेशात् , षडशीत्यधिकद्वादशशतसङ्ख्यवर्षे नागपुरात्कर्तुमारब्धा । अष्टादशशतानि शकटानि बहवो महीधराः । कुमारनेनासमहितो माण्डव्यपुरं यावदायातः । ततः सम्मुखमागत्य महन्तकतेजःपालेन धवलक्ककमानीतः । श्रीवस्तुपाल: सम्मुखमागमत् । सङ्घस्य धूली पवनानुकूल्याद्यां दिशमनु धावति, मन्त्री तत्र गच्छति । तटस्थैर्भणितं, मन्त्रीश ! इतो रजः रजः पादोऽवधार्यताम् । ततः सचिवेन बभणे । इदं रजःस्प्रष्टुं पुण्यैर्लभ्यतेऽनेन रजसा स्पृष्टेन वृजिनरजांसि दूरे नश्यन्ति । ततः सङ्घपतिपूडमन्त्रिणोर्गाढालिङ्गनप्रियालापौ संवृत्तौ । सरस्तीरे स्थितः पूनङ: कुलगुरुमलधारिश्रीनरचन्द्रसूरिपादान् ववंदे । रात्रौ वस्तुपालेन कथापितं पूनडाय पुण्यात्मने । प्रातः सर्वसङ्घनास्मद्वसत्यतिथिना युष्मता च भवितव्यम् । धूमो न कार्यः । पूनडेन तथेत्यादृतम् । रात्रौ मण्डपो द्विद्वारो रसवतीप्रकाराश्च सर्वं निष्पन्नम् । प्रातरायान्ति नागपुरीयाः । सर्वेषां चरणक्षालनं तिलकरचनां च श्रीवस्तुपाल: स्वहस्तेन करोति । एवं लग्ना द्विप्रहरी, मन्त्री तु तथैवानिविण्णः । तदा तेजःपालेन विज्ञप्तमन्येरपि देव ! वयं सङ्घपादक्षालनादि कारयिष्यामः, यूयं भुव, तापो भावो । मन्त्रिनरेन्द्रेणोक्तं मैवं वदत, पुण्यैरयं वासरो लभ्यते । गुरुभिरपि कथापितम् यस्मिन्कुले यः पुरुषः प्रधानः स एव यत्नेन हि रक्षणीयः । तस्मिन्विनष्टे हि कुलं विनिष्टं न नाभिभङ्गे त्वरका वहन्ति ॥७०।। तस्माद्भोक्तव्यं भवद्भिः, तापो माभूत् । मन्त्री पत्नी गुरुभ्यो विज्ञपयितुं प्रेषीत् । तत्र काव्यम् अद्य मे फलवती पितुराशा मातुराशिषि शिखाङ्करिताऽद्य । यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः ॥७१।। भोजयता मन्त्रिणा नागपुरीयाणामेकपङ्क्तित्वं दृष्ट्वा शिरो धूनितम् । अहो शुद्धा लोका एते । एवं भोजयित्वा परिधाप्य च रञ्चितो नागपुरसङ्घः । गतौ वस्तुपालपूनडौ शत्रुञ्जयं ससङ्घौ, D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269