Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 265
________________ २४४] [ सुकृतकीर्त्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ प्रहितमुदयसिंहेन । ततो जातं निष्कण्टकं वीसलदेवराज्यम् । यावन्मात्रं वीरधवलेन साधितं, तावन्मात्रात्किमपि न्यूनं नासीत् । केबलं लब्धप्रसरेण वीसलेन श्रीवस्तुपालो लघुतया दृष्टः । पुरुषः सम्पदामग्रमारोहति यथा यथा । गुरूनपि लघुत्वेन सम्पश्यति तथा तथा ॥९०॥ राज्ञा नागडनामा विप्रः प्रधानीकृतः । मन्त्रिणोः पुनर्लघु श्रीकरणमात्रं दत्तम् । एकश्च समराकनामा प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः । पूर्वमन्यायं कुर्वाणो मन्त्रिवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते । देव ! अनयोः पार्श्वेऽनन्तं धनमास्ते तद्याच्यताम्। राजाऽपि तावाहूयावादीत् । अर्थो दीयताम् । ताभ्यामुक्तम् । अर्थः शत्रुञ्जयादिषु व्ययितत्वान्नास्ति नः । राज्ञोक्तं तर्हि दिव्यं दीयताम् । मन्त्रिभ्यामभिहितं यद्दिव्यं भवद्भयस्तदाऽऽदिश्यताम् । राज्ञा घटसर्पः पुरस्कृतः । लवणप्रसादो निषेधति तदकृत्यम् । न च तद्वचनं राजा शृणोति अभिनवदर्पवशात् तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति मासान्मांसलपाटलापरिमलव्यालोलरोलम्बतः प्राप्य प्रौढिमिमां समीर ! महतीं हन्त त्वया किं कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य य त्पादस्पर्शसहं विहायसि रजः स्थाने तयो: स्थापितम् ॥ ९१ ॥ निवर्तितं दिव्यं राज्ञा । अथ कदाचिद्धवलक्कके मन्त्रिणि वसति सति पौषधशालैकास्ते । तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत् । स पुञ्जको वीसलदेवमातुलस्य सिंहस्य याप्ययानारूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः स मध्ये आगत्य क्षुल्लकं दीर्घेण तर्जकेन पृष्ठे दृढमाहत्य रे ! मां जेठुयकं सिंहं राजमातुलं न जानासीति वदन्स्वगृहं गतः । तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजनारम्भे उत्क्षिप्तप्रथमकवलं रुदन्नुद्घाटितपृष्ठोऽजिज्ञपत् क्षुल्लकः । मन्त्रिणा अभुक्तेनैवोत्थाय क्षुल्लकः सन्धीर्य प्रस्थापितः । स्वयं स्वकीयपरिग्रहो भाषितः । भो क्षत्रियाः ! स कोऽप्यस्ति युष्मासु यो मनोदाहं मे उपशमयति । एकेन राजपुत्रेण भूणपालाख्येनोक्तं देव ! आदेशं देहि । प्राणदानेऽपि तव प्रसादानां नानृणीभवामि । छन्नं मन्त्रिणादिष्टं जेठुयावंशस्य राजमातुलस्य सिंहस्य दक्षिणपाणि छित्वा ढौकय मे । स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याह्नेोद्देशे सिंहावासद्वारे तस्थौ । तावता राजकुलात्सिंह आगतः । राजपुत्रेणाग्रे भूत्वा सिंहायोक्तं मन्त्रिणा श्रीवस्तुपालदेवेनाऽहं वः समीपं केनापि गूढकार्येण प्रेषितोऽस्मि । इतो भूत्वा प्रसाद्यावधार्यताम् । इत्युक्ते स किञ्चित्पराग् भूत्वा यावद्वार्तां श्रोतुं यतते तावन्मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृतः, सहसा छुर्या छिन्नः । छिन्नं तं करं गृहीत्वा रे ! वस्तुपालस्य भृत्योऽस्मि, पुनः श्वेताम्बरं परिभवेः इति वदन् चरणबलेन पलाय भूणपालो मन्त्र्यन्तिकमगमत् करमदीदृशत् । मन्त्रिणा शश्लाघेऽसौ । स करः स्वसौधाग्रे बद्धः। स्वमानुषाणि परमाप्तनरगृहेषु मुक्तानि । परिग्रहो भाषितः । यस्य जीविताशा स स्वगृहं यातु जीवतु । अस्माभिर्बलवता महावैरमुपार्जितं मरणं करस्थमेव, जीविते सन्देहः । तैः D:\sukar-p.pm5\ 2nd proof

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269